________________
गणितसारसहः कालेन व्यत्ययार्घस्स्यात्सषोडशशतं पणाः । तयोरर्घफले धूहि त्वं षडष्ट पृथक् पृथक् ॥ १५ ॥ सूर्परथाश्वेष्टयोगयोजनानयनसूत्रम्
अरिवलाप्तारिवलयाजनसङ्ख्यापर्याययोजनानि स्युः । तानीष्टयोगसङ्ख्यानिनान्येकैकगमनमानानि ॥ १५७ ॥
मनोद्देशकः। रविरथतुरगास्सप्त हि चत्वारोऽश्वा वहन्ति धूर्युक्ताः । योजनसप्ततिगतयः के व्यूढाः के चतुर्योगाः ॥ १५८ ॥ सर्वधनेष्टहीनशेषपिण्डात् स्वस्वहस्तग धनानयनसूत्रम्रूपोननरैविभजेत् पिण्डीकृतभाण्डसारमुपलब्धम् । सर्वधनं स्यात्तस्मादुक्तविहीनं तु हस्तगतम् ॥ १५९ ॥
अत्रोद्देशकः । वणिजस्ते चत्वारः पृथक् पृथक शौल्किकेन परिपृष्टाः । किं भाण्डसारमिति खलु तत्राहैको वणिकच्छेठः ॥ १६० ॥ आत्मधनं विनिगृह्य द्वाविंशतिरिति ततः परोऽवोचत् । त्रिभिरुत्तरा तु विंशतिरथ चतुरधिकैव विंशतिस्तुर्यः !! १६१ ।। सप्तोत्तरविंशतिरिति समानसारा निगृह्य सर्वेऽपि । ऊचुः किं ब्रूहि सरखे पृथक पृथग्भाण्डसारं मे ॥ १६२ ॥ भन्योऽन्यमिष्टरत्नसङ्खयां दत्त्वा समधनानयनसूत्रम्-- पुरुषसमासेन गुणं दातव्यं तद्विशोध्य पण्येभ्यः । शेषपरस्परगुणितं खं खं हित्वा मणेर्मूल्यम् ॥ १६३ ।।