________________
मिश्रकव्यवहारः
81 शेषे हृते सप्ततिभिस्त्रिमित्रै
नरैर्विशुद्धं कथयैकसङ्ख्याम् ॥ ११९ ॥ दृष्टास्सप्तत्रिंशत्कपित्थफलराशयो वने पथिकैः । सप्तदशापोह्य हते व्येकाशीत्यांशकप्रमाणं किम् ॥ १२०३ ॥ दृष्ट्वाम्रराशिमपहाय च सप्त पश्चादक्तेऽष्टभिः पुनरपि प्रविहाय तस्मात् । त्रीणि त्रयोदशभिरुद्दलिते विशद्धः पान्थैर्वने गणक मे कथथैकराशिम् ॥ १२१ ॥ द्वाभ्यां त्रिभिश्चतुर्भिः पनाभिरेकः कपित्थफलराशिः । भक्तो रूपाग्रस्तत्प्रमाणमाचक्ष्व गणितज्ञ ॥ १२२ ॥ द्वाभ्यामेकस्त्रिभिट्ठौं च चतुर्भिर्भाजिने त्रयः । चत्वारि पञ्चभिश्शेषः को राशिर्वद में प्रिय ॥ १२३ ।। द्वाभ्यामेकस्त्रिभिश्शुद्धश्चतुभिजिते त्रयः । चत्वारि पञ्चभिश्शेषः को राशिर्वद में प्रिय ॥ १२४ ॥ द्वाभ्यां निरग्र एकाग्रस्त्रिभिर्नाग्रो विभाजितः । चतुर्भिः पञ्चभिर्भको रूपायो राशिरेष कः ॥ १२५ ॥ द्वाभ्यामेकस्त्रिभिश्शद्धश्चतुभिर्भाजिते त्रयः ।। निरग्रः पञ्चभिर्भक्तः को राशिः कथयाधुना || १२६ ॥ दृष्टा जम्बूफलानां पथि पथिकजनै राशयस्तत्र गशी द्वौ व्यग्रौ नौ नवानां त्रय इति पुनकादशानां विभक्ताः । पश्चाग्रास्ते यतीनां चतरधिकतराः पन ते सप्तकानां कुट्टीकारार्थविन्मे कथय गणक सञ्चिन्त्य गशिप्रमाणम् ॥ १२७॥