________________
गणितसारसङ्ग्रहः प्रथमस्यांशत्रितयं त्रिगुणोत्तरतश्च पञ्चभिर्भक्तम्।। दीनाराणां त्रिशतं त्रिषष्टिसहितं क एकांशः ॥ ८१६ ॥ आदाय चाम्बुजानि प्रविश्य सच्छ्रावकोऽथ जिननिलयम् । पूजां चकार भक्त्या पूजाहेभ्यो जिनेन्द्रेभ्यः ॥ ८२३ ॥ वृषभाय चतुर्थाशं षष्ठांशं शिष्टपार्थाय । द्वादशमथ जिनपतये व्यंशं मुनिसुव्रताय ददौ ॥ ८३ ।। नष्टाष्टकर्मणे जगदिष्टायारिष्टनेमयेऽष्टांशम् । षष्ठघ्नचतुर्भागं भक्त्या जिनशान्तये प्रददौ ॥ ८४ ॥ कमलान्यशीतिमिश्राण्यायातान्यथ शतानि चत्वारि । कुसुमानां भागाख्यं कथय प्रक्षेपकाख्यकरणेन ॥ ८५ ॥ चत्वारि शतानि सरवे युतान्यशीत्या नरैविभक्तानि । पञ्चभिराचक्ष्व त्वं द्वित्रिचतुःप चषडणितैः ॥ ८६ ॥ इष्टगुणफलानयनसूत्रम्भक्तं शेषैर्मूलं गुणगुणितं तेन योजितं प्रक्षेपम् । तद्रव्यं मूलपघ्नं क्षेपविभक्तं हि मूल्यं स्यात् ।। ८७ ॥ अस्मिन्नर्थे पुनरपि सूत्रम्-- फलगुणकारैर्हत्वा पणान् फलैरेव भागमादाय । प्रक्षेपके गुणास्स्युस्त्रैराशिकतः फलं वदेन्मतिमान् ॥ ८॥ अस्मिन्नर्थे पुनरपि सूत्रम्स्वफलहताः स्वगुणनाः पणास्तु तैर्भवति पूर्ववच्छेषः । इष्टफलं निर्दिष्टं त्रैराशिकसाधितं सम्यक् ॥ ८९ ॥