________________
८२
द्रव्यसंग्रहवृत्तिः । गाथा – ४४
यत् प्रयत्नं तद्रूपं यत् स्वस्यात्मनः परिच्छेदनमवलोकनं तद्दर्शनं भण्यते । तदनन्तरं यद्विहिर्विषये विकल्परूपेण पदार्थग्रहणं तज्ज्ञानमिति वार्त्तिकम् । यथा कोऽपि पुरुषो घटविषयविकल्पं कुर्वन्नास्ते, पश्चात् पटपरिज्ञानार्थं चित्ते जाते सति घटविकल्पाद्व्यावर्त्य यत् स्वरूपे प्रयत्नमवलोकनं परिच्छेदनं करोति तद्दर्शनमिति । तदनन्तरं पटाय मिति निश्चयं यद्बहिर्विषयरूपेण पदार्थग्रहणविकल्पं करोति तद् ज्ञानं भण्यते ।
अत्राह शिष्यः — यद्यात्मग्राहकं दर्शनं, परग्राहकं ज्ञानं भण्यते; तर्हि यथा नैयायिकमते ज्ञानमात्मानं न जानाति; तथा जैनमतेऽपि ज्ञानमात्मानं न जानातीति दूषणं प्राप्नोति । अत्र परिहारः । नैयायिकमते ज्ञानं पृथग्दर्शनं पृथगिति गुणद्वयं नास्ति; तेन कारणेन तेषामात्मपरिज्ञानाभावदूषणं प्राप्नोति । जैनमते पुनर्ज्ञानगुणेन परद्रव्यं जानाति, दर्शनगुणेनात्मानं च जानातीत्यात्मपरिज्ञानाभावदूषणं न प्राप्नोति । कस्मादिति चेत् यथैकोऽप्यग्निर्दहतीति दाहकः, पचतीति पाचको, विषयभेदेन द्विधा भिद्यते । तथैवाभेदनयेनैकमपि चैतन्यं भेदनयविवक्षायां यदात्मग्राहकत्वेन प्रवृत्तं तदा तस्य दर्शनमिति संज्ञा, पश्चात् यच्च परद्रव्यग्राहकत्वेन प्रवृत्तं तस्य ज्ञानसंज्ञेति विषयभेदेन द्विधा भिद्यते । किं च यदि सामान्यग्राहकं दर्शनं विशेषग्राहकं ज्ञानं भण्यते, तदा ज्ञानस्य प्रमाणत्वं न प्राप्नोति । कस्मादिति चेत् वस्तुग्राहकं प्रमाणं; वस्तु च सामान्यविशेषात्मकंः ज्ञानेन पुनर्वस्त्वेकदेशो विशेष एव गृहीतो; न च वस्तु । सिद्धान्तेन पुनर्निश्चयेन गुणगुणिनोरभिन्नत्वात् संशय विमोहविभ्रमरहितवस्तुज्ञानस्वरूपात्मैव प्रमाणम् । स च प्रदीपवत् स्वपरगर्त सामान्यं विशेषं च जानाति । तेन कारणेनाभेदेन तस्यैव प्रमाणत्वमिति ।
मतं- यदि दर्शनं बहिर्विषये न प्रवर्त्तते तदान्धवत् सर्वजनानाम·न्धत्वं प्राप्नोतीति । नैवं वक्तव्यम् । बहिर्विषये दर्शनाभावेऽपि ज्ञानेन विशेषेण सर्व परिच्छिनत्तीति । अयं तु विशेषः दर्शनेनात्मनि गृहीते सत्यात्मा विनाभूतं · ज्ञानमपि गृहीतं भवति; ज्ञाने च गृहीते सति ज्ञानविषयभूतं बहिर्वस्त्वपि गृहीतं भवतीति । यथोक्तं भवता यद्यात्मग्राहकं दर्शनं भण्यते, तर्हि "जं सामण्णं गहणं भावाणं तदंसणमिति” गाथार्थः कथं घटते । तत्रोत्तरं सामान्यग्रहणमात्मग्रहणं तद्दर्शनम् । कस्मादिति चेत् — आत्मा वस्तुपरिच्छित्तिं कुर्वन्निदं जानामीदं न