________________
द्रव्यसंग्रहवृत्तिः । गाथा-३५ परस्मिन् स्वर्गे सर्वार्थसिद्धिं विहाय जघन्यं चेति । शेषं विशेषव्याख्यानं त्रिलोकसारादौ बोद्धव्यम् ॥
किञ्च आदिमध्यान्तमुक्ते शुद्धबुद्धकस्वभावे परमात्मनि सकलविमलकेवलज्ञानलोचनेनादर्शे बिम्बानीव शुद्धात्मादिपदार्था लोक्यन्ते दृश्यन्ते ज्ञायन्ते परिच्छिद्यन्ते यतस्तेन कारणेन स एव निश्चयलोकस्तस्मिन्निश्चयलोकाख्ये स्वकीयशुद्धपरमात्मनि अवलोकनं वा स निश्चयलोकः। “सस्माअो य तिलेस्सा इंदियवसदा य अत्तरुद्दाणि । णाणं च दुप्पउत्तं मोहो पावप्पदो होदि । ” इति गाथोदितविभावपरिणाममादिं कृत्वा समस्तशुभाशुभसंकल्पविकल्पत्यागेन निजशुद्धात्मभावनोत्पन्नपरमाह्लादैकसुखामृतरसास्वादानुभवनेन च या भावना सैव निश्चयलोकानुप्रेक्षा । शेषा पुनर्व्यवहारेणेत्येवं संक्षेपेण लोकानुप्रेक्षाव्याख्यानं समाप्तम् ।।
अथ दुर्लभानुप्रेक्षांकथयति।तथाहि एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियसंज्ञिपर्याप्तमनुष्यदेशकुलरूपेन्द्रियपटुत्वनिर्व्याध्यायुष्कवरबुद्धिसद्धर्मश्रवणग्रहणधारणश्रद्धानसंयमविषयसुखव्यावर्तनक्रोधादिकषायनिवर्त्तनेषु परं परं दुर्लभेषु कथंचित्काकतालीयकन्यायेन लब्धेष्वपि तल्लब्धिरूपबोधे फलभूतस्वशुद्धात्मसंवित्त्यात्मकनिर्मलधर्मध्यानशुक्लध्यानरूपः परमसमाधिदुर्लभः । कस्मादिति चेत्तत्प्रतिबन्धकमिथ्यात्वविषयकषायेंनिदानवन्धादिविभावपरिणामानां प्रबलत्वादिति । तस्मात्स एव निरन्तरं भावनीयः। तद्भावनारहितानां पुनरपि संसारे पतनमिति । तथा चोक्तम्-"इत्यतिदुर्लभरूपां बोधिं लब्ध्वा यदिप्रमादी स्यात् । संसृतिभीमारण्ये भ्रमति वराको नरः सुचिरम् । " पुनश्चोक्तं मनुष्यभवदुर्लभत्वम्-"अशुभपरिणामबहुलता लोकस्य विपुलता महामहती । योनिविपुलता च कुरुते सुदुर्लभां मानुषर्षी योनिम् । " बोधिसमाधिलक्षणं कथ्यतेसम्यग्दर्शनज्ञानचारित्राणामप्राप्तप्रापणं बोधिस्तेषामेव निर्विघ्नेन भवान्तरप्रापणं समाधिरिति । एवं संक्षेपेण दुर्लभानुप्रेक्षा समाप्ता ।
अथ धर्मानुप्रेक्षां कथयति । तद्यथा-संसारे पतन्तं जीवमुद्धृत्य नागेन्द्रनरेन्द्रदेवेन्द्रादिवन्द्ये अव्याबाधानन्तसुखाद्यनन्तगुणलक्षणे मोक्षपदे धरतीति धर्मः। तस्य च भेदाः कथ्यन्ते-अहिंसालक्षणः सागारानगारलक्षणो वा उत्तमक्षमादिलक्षणो वा निश्चयव्यवहाररत्नत्रयात्मको वा शुद्धात्मसंवित्त्यात्मकमोहक्षोभ