________________
द्रव्यसंग्रहवृत्तिः । गाथा-३५ खंडा इंदुरविअत्थण्णमुहत्ता । ” इत्यनेन गाथासूत्रेणागमकथितक्रमेण पृथकपृथगानीय मेलापके कृते सति षडधिकषष्टियुतत्रिशतसंख्यदिनानि भवन्ति । तस्य दिनसमूहाधस्य यदा द्वीपाभ्यन्तराद्दक्षिणेन बहिर्भागेषु दिनकरो गच्छति तदा दक्षिणायनसंज्ञा; यदा पुनः समुद्रात्सकाशादुत्तरेणाभ्यन्तरमार्गेषु समायाति तदोत्तरायणसंज्ञेति । तत्र यदा द्वीपाभ्यन्तरे प्रथममार्गपरिधौ कर्कटसंक्रान्तिदिने दक्षिणायनप्रारम्भे तिष्ठत्यादित्यस्तदा चतुर्णवतिसहस्रपञ्चविंशत्यधिकपञ्चयोजनशतप्रमाण उत्कर्षेणादित्यविमानस्य पूर्वापरेणातपविस्तारो ज्ञेयः । तत्र पुनरष्टादशमुहूत्तैर्दिवसो भवति द्वादशमुहूर्ते रात्रिरिति । ततः क्रमेणातपहानौ सत्यां मुहूर्त्तद्वयस्यैकषष्टिभागीकृतस्यैको भागो दिवसमध्ये दिन प्रति हीयते यावल्लवणसमुद्रेवसानमार्गे माघमासे मकरसंक्रान्तावुत्तरायणदिवसे त्रिषष्टिसहस्राधिकषोडशयोजनप्रमाणो जघन्येनादित्यविमानस्य पूर्वापरेणावपविस्तारो भवति । तथैव द्वादशमुहूत्तैर्दिवसो भवत्यष्टादशमुहूत्र्तं रात्रिश्चेति । शेषं विशेष व्याख्यानं लोकविभागादौ विज्ञेयम् । ___ ये तु मनुष्यक्षेत्राहि गे ज्योतिष्कविमानास्तेषां चलनं नास्ति । ते च मानुषोत्तरपर्वताद्वहिर्भागे पञ्चाशत्सहस्राणि योजनानां गत्वा वलयाकारं पतिक्रमेण पूर्वक्षेत्रं परिवेष्टर तिष्ठन्ति । तत्र प्रथमवलये चतुश्चत्वारिंशदधिकशतप्रमाणाश्चन्द्रास्तथादित्याश्चान्तरान्तरेण तिष्ठन्ति । ततः परं योजनलचे लक्ष गते तेनैव क्रमेण वलयं भवति । अयन्तु विशेष:-वलये वलये चन्द्रचतुष्टयं सूर्यचतुष्टयं च वर्धते यावत्पुष्करार्धबहिर्भागे वलयाष्टकमिति । तत: पुष्करसमुद्रप्रवेशे वेदिकायाः सकाशद्वित्पञ्चाशत्सहस्रप्रमितयोजनानि जलमध्ये प्रविश्य यत्पूर्व चत्वारिंशदधिकशतप्रमाणं प्रथमवलयं व्याख्यातं तस्माद्विगुणसंख्यानं प्रथमवलयं भवति । तदनन्तरं पूर्ववद्योजनलचे लक्ष गते वलयं भवति चन्द्रचतुष्टयस्य सूर्यचतुष्टयस्य च वृद्धिरित्यनेनैव क्रमेण स्वयम्भूरमणसमुद्रबहिर्भागवेदिकापर्यन्तं ज्योतिष्कदेवानामवस्थानं बोद्धव्यम् । एते च प्रतरासंख्येयभागप्रमिता असंख्येया ज्योतिष्कविमाना अकृत्रिमसुवर्णमयरत्नमयजिनचैत्यालयमण्डिता ज्ञातव्याः । इति संक्षेपेण ज्योतिष्कलोकव्याख्यानं समाप्तम् ॥ __अथानन्तरमूर्ध्वलोकः कथ्यते । तथाहि सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारानतप्राणतारणाच्युतसंज्ञाः षो