________________
द्रव्यसंग्रहवृत्तिः । गाथा-३५ संवित्तिबलेन इन्द्रियाद्यास्रवच्छिद्राणां झम्पने सति कर्मजलप्रवेशाभावे निर्विघ्नेन केवलज्ञानाद्यनन्तगुणरत्नपूर्णमुक्तिवेलापत्तनं प्राप्नोतीति । एवं संवरगतगुणानुचिन्तनं संवरानुप्रेक्षा ज्ञातव्या ॥८॥ ___ अथ निर्जरानुप्रेक्षां प्रतिपादयति । यथा कोऽप्यजीर्णदोषेण मलसञ्चये जावे सत्याहारं त्यक्त्वा किमपि हरीतक्यादिकं मलपाचकमग्निदीपक चौषधं ग्रहाति । तेन च मलपाकेन मलानां पातने गलने निर्जरणे सति सुखी भवति । तथायं भव्यजीवोऽयजीर्णजनकाहारस्थानीयमिथ्यात्वरागाद्यज्ञानभावेन कर्ममलसञ्चये सति मिथ्यात्वरागादिकं त्यक्त्वा परमौषधस्थानीयं जीवितमरणलाभालाभसुखदुःखादिसमभावनाप्रतिपादकं कर्ममलपाचकं शुद्धध्यानाग्निदीपकं च जिनवचनौषधं सेवते । तेन च कर्ममलानां गलने निर्जरणे सति सुखी भवति । किञ्च यथा कोऽपि धीमानजीर्णकाले यदुःखजातं तदजीर्णे गतेऽपि न विस्मरति ततश्चाजीर्णजनकाहारं परिहरति तेन च सर्वदैव सुखी भवति । तथा विवेकिजनोऽपि "आर्ता नरा धर्मपरा भवन्ति" इति वचनाडुःखोत्पत्तिकाले ये धर्मपरिणामा जायन्ते तान् दुःखे गतेऽपि न विस्मरति । ततश्च निजपरमात्मानुभूतिबलेन निर्जरार्थ दृष्टश्रुतानुभूतभोगाकाङ्क्षादिविभावपरिणामपरित्यागरूपैः संवेगवैराग्यपरिणामैर्वर्त्तत इति । संवेगवैराग्यलक्षणं कथ्यते—“धम्मे य धम्मफलसि दंसणे य हरिसो य हुति संवेगो। संसारदेहभोगेसु विरत्तभावो य वैरग्ग।" इति निर्जरानुप्रेक्षा गता ॥६॥ ____ अथ लोकानुप्रेक्षां प्रतिपादयति । तद्यथा-अनन्तानन्ताकाशबहुमध्यप्रदेशे घनोदधिधनवाततनुवाताभिधानवायुत्रयवेष्टितानादिनिधनाकृत्रिमनिश्चलासंख्यातप्रदेशो लोकोऽस्ति । तस्याकारः कथ्यते–अधोमुखार्द्धमुरजस्योपरि पूर्णे मुरजे स्थापिते यादृशाकारो भवति तादृशाकारः परं किन्तु मुरजो वृत्तो लोकस्तु चतुष्कोण इति विशेषः । अथवा प्रसारितपादस्य कटितटन्यस्तहस्तस्य चोर्ध्वस्थितपुरुषस्य यादृशाकारो भवति तादृशः । इदानीं तस्यैवोत्सेधायामविस्ताराः कथ्यन्ते-चतुर्दशरज्जुप्रमाणोत्सेधस्तथैव दक्षिणोत्तरेण सर्वत्र सप्तरज्जुप्रमाणायामो भवति । पूर्वपश्चिमेन पुनरधोविभागे सप्तरज्जुविस्तारः । ततश्चाधोभागात् क्रमहानिरूपेण हीयते यावन्मध्यलोक एकरज्जुप्रमाणविस्तारो भवति । ततो मध्यलोकादूर्व क्रमवृद्धया वर्द्धते यावद्ब्रह्मलोकान्ते रज्जुपञ्चकनिस्तारो भवति ।