________________
द्रव्यसंग्रहवृत्तिः । गाथा-३५ णतस्यास्य जीवस्य निश्चयनयेन सहजानन्दसुखाद्यनन्तगुणाधारभूतं केवलज्ञानमेवैकं सहजं शरीरम् । शरीरं कोऽर्थः स्वरूपं न च सप्तधातुमयौदारिकशरीरम् । तथैवातरौद्रदुर्ध्यानविलक्षणपरमसामायिकलक्षणैकत्वभावनापरिणतं निजात्मतत्वमेवैकं सदा शाश्वतं परमहितकारि न च पुत्रकलत्रगोत्रादिः । तेनैव प्रकारेण परमोपेक्षासंयमलक्षणैकत्वभावनासहित: स्वशुद्धात्मपदार्थ एक एवाविनश्वरहितकारी परमोऽर्थः न च सुवर्णाद्यर्थः । तथैव निर्विकल्पसमाधिसमुत्पन्ननिर्विकारपरमानन्दैकलनणानाकुन्नत्वन्वभावान्मनुन्वमेवैकं सुखं न वाकुलत्वोत्पादकेन्द्रियसुखमिति । कस्मादिदं देहवन्धुजनसुवर्णाद्यर्थेन्द्रियसुखादिकं जीवस्य निश्चयेन निराकृतमिति चेत् यतो मरणकाले जीव एक एव गत्यन्तरं गच्छति न च देहादीनि । तथैव रोगव्याप्तिकाले विषयकपायादिदुर्ध्यानरहितः स्वशुद्धात्मैकसहायो भवति । तदपि कथमिति चेत् ? यदि चरमदेहो भवति तर्हि केवलज्ञानादिव्यक्तिरूपं मोक्षं नयति, अचरमदेहस्य तु संसारस्थिति स्तोकां कृत्वा देवेन्द्राद्यभ्युदयसुखं दत्वा च पश्चात् पारम्पर्येण मोक्ष प्रापयतीत्यर्थः । तथा चोक्तं—“सग्गं तवेण सव्वो, वि पावए किंतु झाणजोयेण । जो पावइ सो पावइ, परं भवे सासयं सोक्खं ॥” एवमेकत्वभावनाफलं ज्ञात्वा निरन्तरं निजशुद्धात्मैकत्वभावना कर्त्तव्या । इत्येकवानुप्रेक्षा गता ॥
अघान्यत्वानुप्रेक्षां कथयति । तथा हि-पूर्वोक्तानि यानि देहबन्धुजनसुवर्णाद्ययेन्द्रियसुखादीनि कर्माधीनत्वे विनश्वराणि तथैव हेयभूतानि च, तानि सर्वाणि टङ्कोत्कीर्णज्ञायकैकस्वभावत्वेन नित्यात्सर्वप्रकारोपादेयभूतानिर्विकारपरमचैतन्यचिच्चमत्कारस्वभावान्निजपरमात्मपदार्थान्निश्चयनयेनान्यानि भिन्नानि। तेभ्यः पुनरात्माप्यन्यो भिन्न इति । अयमत्र भावः-एकत्वानुप्रेक्षायामेको - हमित्यादिविधिरूपेण व्याख्यानं, अन्यत्वानुप्रेक्षायां तु देहादयो मत्सकाशादन्ये मदीया न भवन्तीति निषेधरूपेण । इत्येकत्वान्यत्वानुप्रेक्षायां विधिनिषेधरूप एव विशेषस्तात्पर्य तदेव । इत्यन्यत्वानुप्रेक्षा समाप्ता ॥
अतः परमशुचित्वानुप्रेक्षा कथ्यते । तद्यथा-सर्वाशुचिशुक्रशोणितकारणोत्पन्नत्वात्तथैव “वसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः” इत्युक्ताशुचिसतधातुमयत्वेन तथा नासिकादिनवरन्ध्रद्वारैरपि स्वरूपेणाशुचित्वात्तथैव मूत्रपुरीषाद्यशुचिमलानामुत्पत्तिस्थानत्वाच्चाशुचिरयं देहः । न केवलमशुचिकारणत्वे -