________________
४२
द्रव्यसंग्रहवृत्तिः । गाथा-३५. भेदा ज्ञातव्याः । अथ विस्तर:-निश्चयेन विशुद्धज्ञानदर्शनस्वभावनिजात्मतत्वभावनोत्पन्नसुखसुधास्वादबलेन समस्तशुभाशुभरागादिविकल्पनिवृत्ति'तम्, व्यवहारेण तत्साधकं हिंसानृतस्तेयाब्रह्मपरिग्रहाच्च यावज्जीवनिवृत्तिलक्षणं पञ्चविधं व्रतम् । निश्चयेनानन्तज्ञानादिम्वभावे निजात्मनि सम् सम्यक् समस्तरागादिविभावपरित्यागेन तल्लीनतच्चिन्तनतन्मयत्वेन अयनं गमनं परिणमनं समितिः, व्यवहारेण तद्बहिरङ्गसहकारिकारणभूताचारादिचरणग्रन्थोक्ता ईर्याभाषैषणादाननिक्षपोत्सर्गसंज्ञाः पञ्च समितयः । निश्चयेन सहजशुद्धात्मभावनालक्षणे गूढस्थाने संसारकारणरागादिभयात्स्वस्यात्मनो गोपनं प्रच्छादनं झम्पनं प्रवेशनं रक्षणं गुप्तिः, व्यवहारेण बहिरङ्गसाधनार्थ मनोवचनकायव्यापारनिरोधो गुप्तिः । निश्चयेन संसारे पतन्तमात्मानं धरतीति विशुद्धज्ञानदर्शनलनगनिनशुद्धात्मभावनात्मको धर्मः, व्यवहारेण तत्साधनार्थ देवेन्द्रनरेन्द्रादिवन्द्यपदे धरतीत्युत्तमक्षमामाईवार्जवसत्यशौचसंयमतपस्यागाकिञ्चन्यब्रह्मचर्यलक्षणो दशप्रकारो धर्मः। .. द्वादशानुप्रेक्षाः कथ्यन्ते-अध्रुवाशरणसंसारैकत्वान्यत्वशुचित्वास्रवसंवरनिर्जरा तोकबोधिदुर्लभधर्मानुचिन्तनमनुप्रेक्षाः । ताश्च कथ्यन्ते । तद्यथा-द्रव्यार्थिकनयेन टङ्कोत्कीर्णज्ञायकैकस्वभावत्वेनाविनश्वरस्वभावनिजपरमात्मद्रव्यादन्यद् भिन्नं यज्जीवसंबन्धे अशुद्धनिश्चयनयेन रागादिविभावरूपं भावकर्म, अनुपमचरितासद्भू तव्यवहारेण द्रव्यकर्मनोकर्मरूपं च तथैव तत्स्वस्वामिभावसम्बन्धेन गृहीतं यच्चेतनं वनितादिकम् , अचेतनं सुवर्णादिकं तदुभयमिश्रं चेत्युक्तलक्षणं तत्समध्रु वमिति भावयितव्यम् । तद्भावनासहितपुरुषस्य तेषां वियोगेऽपि सत्युच्छिटेष्विव ममत्वं न भवति तत्र ममत्वाभावादविनश्वरनिजपरमात्मानमेव भेदाभेदरनत्रयभावनया भावयति, यादृशमविनश्वरमात्मानं भावयति नाहशमेवाक्षयानन्तसुखस्वभावं मुक्तात्मानं प्राप्नोति । इत्यध्रुवानुप्रेक्षा गता।
अथ निश्चयरत्नत्रयपरिणतं स्वशुद्धात्मद्रव्य तहिरङ्गमहकारिकारणभूतं पञ्चपरमेष्ठयाराधनञ्च शरणम् , तस्मादहिभूता ये देवेन्द्रचक्रवर्तिसुभटकोटिभटपुत्रादिचेतना गिरिदुर्गभूविवरमणिमन्त्राज्ञाप्रसादौषधादयः पुनरचेतनास्तदुभयात्मका मिश्राश्च मरणकालादौ महाटव्यां व्याघ्रगृहीतमृगबालस्यैव महासमुद्रे पोतच्युतपनिण इव शरणं न भवन्तीति विज्ञेयम् । तद्विज्ञाय भोगा