________________
द्रव्यसंग्रहवृत्तिः । गाथा-६ त्मतत्त्वसम्यश्रद्धानज्ञानानुचरगननौकाग्रध्यानेन केवलज्ञानावरणादिघातिचतुष्टयक्षये सति यत्समुत्पद्यते तदेव समस्तद्रव्यक्षेत्रकालभावग्राहकं सर्वप्रकारोपादेयभूतं केवलज्ञानमिति ।
अथ ज्ञानदर्शनोपयोगद्वयव्याख्यानस्य नयविभागेनोपसंहारः कथ्यते ।
व्याख्या । “अट्ठ चदु णाण दंसण सामण्णं जीवलक्खणं भणियं" अष्टविधं ज्ञानं चतुर्विधं दर्शनं सामान्य जीवलक्षणं भणितम् । सामान्यमिति कोऽर्थः संसारिजीवमुक्तजीवविवक्षा नास्ति, अथवा शुद्धाशुद्धज्ञानदर्शनविवक्षा नास्ति। तदपि कथमितिचेद् सामान्यलक्षणमिति वचनात्, कस्मात्सामान्य जीवलक्षणं भणितं "ववहारा” व्यवहारात् व्यवहारनयात् । अत्र केवलज्ञानदर्शनं प्रति शुद्धसद्भूतशब्दवाच्योऽनुपचरितसद्भूतव्यवहारः,
द्मस्थज्ञानदर्शनापरिपूर्णापेनया पुनरशुद्धसद्भूतशब्दवाच्य उपचरितसद्भूत व्यवहारः, कुमतिकुश्रुतविभङ्गत्रये पुनरुपचरितासद्भूतव्यवहारः । “सुद्धणया सुद्धं पुण दंसणं णाणं' शुद्धनिश्चयनयात्पुनः शुद्धमखण्डं केवलज्ञानदर्शनद्वय जीवलक्षणमिति । किञ्च मानदर्शनोपोनापियन्नाचानुपयोनशन्टेन विवक्षितार्थपरिच्छित्तिलक्षणोऽर्थग्रहणव्यापारो गृह्यते । शुभाशुभशुद्धोपयोगत्रयविवक्षायां पुनरुपयोगशब्देन शुभाशुभशुद्धभावनैकरूपमनुष्ठानं ज्ञातव्यमिति । अत्र सहजशुद्धनिर्विकारपरमानन्दैकलनणस्य साक्षादुपादेयभूतस्याक्षयसुखस्योपादानकारणत्वात्केवलज्ञानदर्शनद्वयमुपादेयमिति । एवं नैयायिक प्रति गुणगुणिभेदैकान्तनिराकरणामुपयोगव्यान्यानेन गाथात्रय गतम् ॥ ६॥ . ___ अघामूर्तातीन्द्रियनिजात्मद्रव्यसंवित्तिरहितेन मूर्तपञ्चेन्द्रियविषयासक्त ने च यदुपार्जितं मूर्त्त कर्म तंदुदयेन व्यवहारेण मूर्तोऽपि निश्चयेनामूर्तो जीव इत्युपदिशति । ___ व्याख्या। "वण्ण रस पञ्च गंधा दो फासा अट्ट णिच्चया जीवे णो संति" श्वेतपीतनीलारुणकृष्णसंज्ञाः पञ्च वर्णाः; तिनकटुककपायाम्लमधुरसंज्ञाः पञ्च रसाः, सुगन्धदुर्गन्धसंज्ञौ द्वौ गन्धौ, शीतोष्णस्निन्धरूक्षमृदुकर्कशगुरुलघुसंज्ञा अष्टौ स्पर्शाः; “णिच्चया” शुद्धनिश्चयनयात् शुद्धबुद्धकस्वभावे शुद्धजीवे न सन्ति । "अमुत्ति तदो” ततः कारणादमूर्तः, यद्यमूर्तस्तर्हि तस्य कथं कर्मबन्ध इति चेत् “ववहारा मुत्ति" अनुपचरितासद्भू तव्यवहारान्मूर्तो