________________
द्रव्यसंग्रहवृत्तिः । गाथा-१ भगवता किं कृतं ? "णिहिट्ठं" निर्दिष्टं कथितं प्रतिपादितम् । किं "जीवमजीवं दव्वं" जीवाजीवद्रव्यद्वयम् । तद्यथा,-सहजशुद्धचैतन्यादिलक्षणं जीवद्रव्यं, तद्विलक्षणं पुनलादिपञ्चभेदमजीवद्रव्यं च, तथैव चिच्चमत्कारलक्षणशुद्धजीवास्तिकायादिपञ्चास्तिकायानां, परमचिज्योतिःस्वरूपशुद्धजीवादिसप्ततत्त्वानां, निर्दोषपरमात्मादिनवपदार्थानां च स्वरूपमुपदिष्टम् । पुनरपि कथम्भूतेन भगवता ? "जिणवरवसहेण" जितमिथ्यात्वरागादित्वेन एकदेशजिनाः असंयतसम्यग्दृष्टयादयस्तेषां वराः गणधरदेवास्तेषां जिनवराणां वृषभः प्रधानो जिनवरवृषभस्तीर्घकरपरमदेवस्तेन जिनवर-वृषभेणेति ॥
अत्राध्यात्मशास्त्र यद्यपि सिद्धपरमेष्ठिनमस्कार उचितस्तथापि व्यवहारनयमाश्रित्य प्रत्युपकारस्मरणार्थमहत्परमेष्ठिनमस्कार एव कृतः । तथाचोक्तं"श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः । इत्याहुस्तद्गुणस्तोत्रं शास्त्रादा मुनिपुङ्गवाः ॥ १॥" अत्र गाथापरार्द्धन-"नास्तिकत्वपरीहारः शिष्टाचारप्रपालनम् । पुण्यावाप्तिश्च निर्विनः शास्त्रादौ तेन संस्तुतिः ॥ २ ॥” इति श्लोककथितफलचतुष्टयं समीक्षमाणा ग्रन्थकाराः शास्त्रादौ त्रिधा देवतायै त्रिधा नमस्कारं कुर्वन्ति । इत्यादिमङ्गलव्याख्यानं सूचितम् । मङ्गलमित्युपलक्षणम् । उक्तं च-"मंगलनिमित्तहउँ परिमाणं णाम तह य कत्तारं । वागरिय छप्पि पच्छा वक्खाणउ सत्थ-मायरिओ ॥ १॥" "वक्खाणउ" व्याख्यातु । स कः ? "आयरिओ" प्राचार्यः । कं ? "सत्थं" शास्त्र "पच्छा" पश्चात् । किं कृत्वा पूर्व ? “वागरिय, व्याकृत्य व्याख्याय । कान ? "छप्पि” षडप्यऽधिकारान् । कथंभूतान् ? "मंगलनिमित्तहेउं परिमाणं णाम तह य कत्तारं" मङ्गलं निमित्तं हेतु परिमाणं नाम कर्तृ संज्ञामिति । इति गाधाकथितक्रमेण मंगलाद्यधिकारषट्कमपि ज्ञातव्यम् ॥
गाथापूर्वार्द्धन तु सम्बन्धाभिधेयप्रयोजनानि सूचितानि । कथमिति चेत् ? विशुद्धज्ञानदर्शनम्वभावपरमात्मम्वरूपादिविवरणम्पो वृत्तिग्रन्थो व्याख्यानम् । व्याख्येयं तु तत्प्रतिपादकसूत्रम् । इति व्याख्यानव्याख्येयसम्वन्धो विज्ञेयः । यदेव व्याख्येयसूत्रमुक्तं तदेवाभिधानं वाचकं प्रतिपादकं भण्यते, अनन्तज्ञानाघनन्तगुणाधारपरमात्मादिस्वभावोऽभिधेयो वाच्यः प्रतिपाद्यः । इत्यभिधाना