________________
THE TEXTS स्वामिन्दन्ताबलघनघटा उत्कटा वाजिघट्टाः
. स्थामप्रौढा विकटसुभटाः स्यन्दनाश्चाभिरामाः। भव्यं द्रव्यं कनकरजतं भूरिमाणिक्यमुक्ता
राशिर्न स्युस्तव मतमृते दुर्गतित्राणहेतोः ॥३४॥ कामाध्मातः प्रवणमनसा विश्ववन्धान पादां
श्चक्रे वाचा विविधविकथा न स्तुतिस्ते गुणानाम् । पापं कर्म व्यरचि वपुषा पर्युपास्मिया नो
ही जन्मोदग्विफलमगमं देव दुर्दैवयोगात् ॥३५॥ पुष्पैर्गन्धैर्बहुपरिमलैरक्षतधूपदीपैः
सत्रैर्वाद्यैः शुभफलगणैर्वारिसम्पूर्णपात्रैः । कुर्वाणास्ते जगदधिपतेरर्चनामष्टभेदां
सर्वाशंसारहितमतयो विश्ववन्द्या भवन्ति ॥३६॥ एतत्तीर्थ प्रवरमहिमं श्रीमदवावबोध
त्वत्पादाम्भोरुहपरिचयप्राप्तपावित्र्यभावम् । तृष्णाच्छेदं मलविशरणं सर्वदाहोपशान्ति
कुर्यात्केषां न हि मुनिपते देव भव्याङ्गभाजाम् ॥३७॥ नश्यत्यंहो जिन शकुनिकाश्रोविहाराभिधान
प्रासादेनाश्रिततनुमतामत्र संस्थेन दूरे । प्राकारेऽन्तर्गुरुपरिवृढाधिष्ठिते सुप्रतिष्ठे
चौराः क्रौरा अपि विदधते मोषमावासिनां नो ॥३८॥ धन्यो लोको भृगुपुरगतः कस्य पुण्यात्मनोऽपि
__ श्लाघास्थानं न भवति विभो प्रत्यहं यः प्रभाते । उत्थाय त्वच्चरणयुगलोपास्तिमस्तान्यकृत्यश्चक्राणः स्वं सजति सफलं मानुषं जन्म लब्धम् ॥३९॥
99