SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ક ॥ श्री ॥ ॥ श्रीगोरक्षनाथकृतसिद्धसिद्धान्तपद्धतिः ॥ प्रथमोपदेशः । -- ॥ श्रीगणेशाय नमः ॥ आदिनाथं नमस्कृत्य शक्तियुक्तं जगद्गुरुम् । वक्ष्ये गोरक्षनाथोऽहं सिद्धसिद्धान्तपद्धतिम् ॥ १ ॥ नास्ति सत्यविचारेऽस्मिन्नुत्पत्तिश्चाण्डपिण्डयोः । तथापि लोकवृत्त्यर्थं वक्ष्ये सत्सम्प्रदायतः ॥ २ ॥ सा पिण्डोत्पत्त्यादिः सिद्धमते सम्यक् प्रसिद्धा । पिण्डोत्पत्तिः पिण्डविचारः पिण्डसंवित्तिः पिण्डाधारः पिण्डपदसमरसभावः श्रीनित्यपिण्डावतः ॥ ३ ॥ यदा नास्ति स्वयंकर्ता कारणं न कुलाकुलम् । अव्यक्तं च परं ब्रह्म अनामा विद्यते तदा ॥ ४ ॥ अनामेति स्वयंमनादि सिद्धमेकमेवानादिनिधनं सिद्ध सिद्धान्तप्रसिद्धं तस्येच्छामात्रधर्माधर्मिणी निजा शक्तिः प्रसिद्धा ॥ ५ ॥ तस्या उन्मुखमात्रेण परा शक्तिरुत्थिता । तस्यास्स्पन्दनमात्रेण अपरा शक्तिरुत्थिता || ६ | ततोऽहन्तार्धमात्रेण सूक्ष्मशक्तिरुत्पन्ना । ततो वेदनशीला कुण्डलिनी शक्तिरुद्रता ॥ ७ ॥ १ - श्रीनित्यावधूत (ह. ). २ - न ( यो. तं.). ३ - उन्मुखत्व (ह.). तस्य (ह. ). ५ - अहन्तार्थ ( ह. ) .
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy