SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ No I. Sanghavi PĀNĀ नित्यं प्राप्तमहोदयं त्रिभुवनक्षीराब्धी(ब्धि)रत्नोत्तमं । स्वयॊतिस्ततिमात्रकांतकिरणैरन्तस्तमोभेदकं । स्वच्छातुच्छसितांबरैकतिलकं विभ्रत् सदा कौमुदं श्रीमचंद्रकुलं समस्ति विमलं जाइयक्षितिप्रत्यलं ॥ ३ ॥ तस्मिन् सूरिपरंपराक्रमसमायाता बृहत्याभवाः सम्यग्ज्ञानसुदर्शनातिविमलश्रीपद्मखंडोपमाः । सञ्चारित्रविभूपिताः शमधनाः सद्वर्ण्यकल्पांत्रिपा विख्याता भुवि सूरयः समभवन् श्रीशीलभद्राभिधाः ॥ ४ ॥ ततश्च तेषां पदपनहंसः समप्रगच्छाभरणावतंसः । धनेश्वरः सूरिरभूत् प्रशस्यः शिष्यः प्रभावप्रथितो यदीयः ॥५॥ निःशेषागम-तर्कशास्त्र-सकलालंकारसंविन्निधे यस्येंदोरिव दीधितीवितमसो वाचोमृतस्यंदिनीः । आस्वाद्यामितभक्तिसद्मभविकाः स्वात्मानमस्ताशुभं मन्यते स्म सुरापवर्गरुचिरश्रीपात्रमत्युत्तमं ॥ ६ ॥ श्रीचंद्रसूरिनामा शिष्यस्तेषां बभूव गुरुभक्तः । तेन कृता स्पष्टार्था श्राद्धप्रतिक्रमणवृत्तिरियं ।। ७ ।। कर-नयन-सूर्यवर्षे प्रातः पुण्यार्कमधुसितदशम्यां । धृतियोगनवमकक्षे समर्थिता प्रकृतवृत्तिरियं ॥ ८ ॥ उत्सूत्रं यद् रचितं मतिदौर्बल्यात् कथंचनापि मया । तच्छोधयंतु कृतिनोनुग्रहबुद्धिं मयि विधाय ॥ ९ ॥ यावत् सुमेरुशिखरी शिखरीकृतोत्र नित्यं विभाति जिनबिंबगृहैमनोज्ञैः । श्रीचंद्रसूरिरचिता भुवि तावदेपा नंद्यात् प्रतिक्रमणवृत्तिरधीयमाना ॥ १० ॥ प्रत्यक्षरं निरूप्यास्यां ग्रंथमानं विनिश्चितं । श्लोकपंचाशदुत्तरशतान्येकोनविंशतिः ॥ ११ ॥ ग्रंथानं १९५० ॥७॥ End: सं० १२९९ भाद्रपदशुदि १५ बुधे ॥ ७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy