SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 54 Pattan CATALOGUE OF MANUSCRIPTS निष्पन्ना ननु जीर्णशीर्णवसनै रंध्रविच्छित्तिभिः प्रालेयप्रथितां न मंथति कथं कथा व्यथां सर्वथा ॥ २ ॥ श्रीशीलभद्रसूरीणां पट्टे माणिक्यसंनिभाः । परमज्योतिपो जाता भरतेश्वरसूरयः ॥ ३ ॥ भरतेन परित्यक्तोस्मीति कोपं वह निव ।। शांतो रसस्तदधिकं भेजे श्रीभरतेश्वरं ॥ ४ ॥ पट्टं तदन्वलंचक्रे वैरस्वामी मुनीश्वरः । अनुप्रद्योतनोद्योतं दिवमिंदुमरीचिवत् ॥ ५ ॥ वांछन् सिद्धिवर्धू हसन सितरुचिं कीर्त्या रतिं रोदयन् पंचेपोर्मथनाद् दहन भववनं क्रामन् कषायद्विषः । त्रस्यन नागमलंघनाद् घनशकृत्()भस्त्रास्त्यजन् योषितो बिभ्राणः शममद्भुतं नवरसी यस्तुल्य[मा]स्फोरयत् ॥ ६ ॥ पटतर्कीललनाविलासवसतिः स्फूर्जत्तपोहर्पति___ स्तत्पट्टोदयचंद्रमाः समजनि श्रीनेमिचंद्रः प्रभुः । निःसामान्यगुणैर्भुवि प्रसृमरैः प्रालेयशैलोज्वलै र्यश्चके कणभोजिनो मुनिपतेर्व्यर्थ मतं सर्वतः ॥ ७ ॥ यत्र प्रातिभशालिनामपि नृणां संचारमातन्वतां संदोहैः प्रतिभाकिरीटपटली सद्यः समुत्तार्यते । नीरंधं विषमप्रमेयविटपिवातावकीर्णे सदा तस्मिंस्तर्कपथे यथेष्टगमना जज्ञे यदीया मतिः ॥ ८ ॥ यस्मात् प्राप्य पृथुप्रसादविशद विद्योपदेशात्मिकां पत्रं(त्रीं) मुक्तिकरीमतीव जडतावस्त्वन्विता मन्मतिः । विक्षिप्य भ्रमशौक्तिकान् ज्वलयतो लब्धा(ब्ध्वा)श्रयं मानसे मध्येवाङ्मयपत्तनं प्रविशति द्वारि स्थिता तत्क्षणात् ॥ ९॥ मदमदनतुषारक्षेपपूषा विभूषा जिनवदनसरोजावासिवागीश्वरायाः । द्युमुखमखिलतर्कग्रंथपंकेरुहाणां तदनु समजनि श्रीसागरेंदुर्मुनींद्रः ॥ १० ॥ माणिक्यचंद्राचार्येण तदंघ्रिकमलालिना।। काव्यप्रकाशे संकेतः स्वान्योपकृतये कृतः ॥ ११ ॥ रस-वक्त्र-ग्रहाधीशवत्सरे मासि माधवे । काव्ये काव्यप्रकाशस्य संकेतोयं समर्थितः ॥ १२ ॥ सर्वप्रथ ३२४४ काव्यप्रकाशसंकेतः श्रीमाणिक्यचंद्रसूरिकृतः ॥ ७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy