________________
३०८
- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० २७,*१७अथ युक्ताहारविहारः साक्षादनाहारविहार एवेत्युपदिशति
जस्स अणेसणमप्पा तं पि तवो तप्पडिच्छगा समणा । - अण्णं भिक्खमणेसणमध ते समणा अणाहारा ॥ २७ ॥
यस्यानेषण आत्मा तदपि तपः तत्प्रत्येषकाः श्रमणाः ।
अन्यद्भक्षमनेषणमथ ते श्रमणा अनाहाराः ॥ २७॥ स्वयमनशनस्वभावत्वादेषणादोषशून्यभैक्ष्यत्वाच युक्ताहारः साक्षादनाहार एव स्यात् । । तथाहि-यस्य सकलकालमेव सकलपुद्गलाहरणशून्यमात्मानमवबुद्ध्यमानस्य सकलाशनतृष्णाशून्यत्वात्स्वयमनशन एव स्वभावः । तदेव तस्यानशनं नाम तपोऽन्तरङ्गस्य पुनरन्यः शरीरपोषणनिरत इति ॥ २६ ॥ अथ पञ्चदशप्रमादैस्तपोधनः प्रमत्तो भवतीति प्रतिपादयति--
कोहादिएहि चउहि वि विकहाहि तहिंदियाणमत्थेहिं ।
समणो हवदि पमत्तो उवजुत्तो णेहणिदाहिं ॥ *१७ ॥ हवदि क्रोधादिपञ्चदशप्रमादरहितचिच्चमत्कारमात्रात्मतत्त्वभावनाच्युतः सन् भवति । स कः कर्ता । समणो सुखदुःखादिसमचित्तः श्रमणः । किंविशिष्टो भवति । पमत्तो प्रमत्तः प्रमादी । कैः कृत्वा । कोहादिएहि चउहि वि चतुर्भिरपि क्रोधादिभिः विकहाहि स्त्रीभक्तचोरराजकथामिः तहिंदियाणमत्थेहिं तथैव पञ्चेन्द्रियाणामर्थैः स्पर्शादिविषयैः । पुनरपि किंरूपः । उवजुत्तो उपयुक्तः परिणतः । काभ्याम् । णेहणिदाहिं स्नेहनिद्राभ्यामिति ॥ १७ ॥ अथ युक्ताहारविहारतपोधनखरूपमुपदिशति-जस्स यस्य मुनेः संबन्धी अप्पा आत्मा । किंविशिष्टः । अणेसणं स्वकीयशुद्धात्मतत्त्वभावनोत्पन्नसुखामृताहारेण तृप्तत्वान्न विद्यते एषणमाहाराकाङ्क्षा यस्य स भवत्यनेषणः । तं पि तवो तस्य तदेव निश्चयेन निराहारात्मभावनारूपमुवासलक्षणं तपः, तप्पडिच्छगा समणा तत्प्रत्येषकाः श्रमणाः तन्निश्चयोपवासलक्षणं तपः प्रतीच्छन्ति तत्प्रत्येषकाः श्रमणाः । पुनरपि किं येषाम् । अण्णं निजपरमात्मतत्त्वादन्यद्भिन्नं हेयम् । किम् । अणेसणं अन्नस्याहारस्यैषणं वाञ्छानेषणम् । कथंभूतम् । भिक्खं भिक्षायां भवं भैक्ष्यं आगे कहते हैं, कि योग्य आहार विहार करनेपर भी मुनिको साक्षात् आहार विहारसे रहित मानना चाहिये-[यस्य आत्मा ] जिस मुनिका जीव [अनेषणः] अपने स्वभावकर परद्रव्यके ग्रहणसे रहित निराहारी है, [तत् ] वही आत्माका निराहार स्वभाव [ अपि ] निश्चयसे [ तपः] अंतरङ्ग तप है। [ तत्प्रत्येषकाः श्रमणाः] उस निराहार आत्मस्वभावकी सिद्धिके वाञ्छक जो महामुनि हैं, वे [अनेषणं] आहारके दोषोंसे रहित [अन्यत् भैक्षं] अन्य भिक्षाके विषयमें शुद्ध अन्नको ग्रहण करते हैं, [अथ] इसी लिये ग्रहण करते हुए भी [ते श्रमणाः ] वे महामुनि .