________________
२९४
- रायचन्द्र जैनशास्त्रमाला.
[ अ० ३, गा० १९
प्रसिद्धेरहिंसक एव स्यात् । ततस्तैस्तैः सर्वैः प्रकारैरशुद्धोपयोगरूपोऽन्तरङ्गच्छेदः प्रतिषेध्यो यैर्यैस्तदायतनमात्रभूतः परप्राणव्यपरोपरूपो बहिरङ्गच्छेदो दूरादेव प्रतिषिद्धः स्यात् ॥१८॥ अथैकान्तिकान्तरङ्गच्छेदत्वादुपधिस्तद्वत्प्रतिषेध्य इत्युपदिशति —
हवदि व ण हवदि बंधो मदम्हि जीवेऽध काय चेंट्ठम्हि | बंधो धुवमुवधीदो इदि समणा छड्डिया सवं ॥ १९ ॥ भवति वा न भवति बन्धो मृते जीवेऽथ कायचेष्टायाम् । बन्ध ध्रुवमुपधेरिति श्रमणास्त्यक्तवन्तः सर्वम् ॥ १९ ॥
यथा हि कायव्यापारपूर्वकस्य परप्राणव्यंपरोपस्याशुद्धोपयोगसद्भावासद्भावाभ्यामनैकान्तिकबन्धत्वेन छेदत्वमनैकान्तिकमिष्टं, न खलु तथोपधेः, तस्य सर्वथा तदविनाभावित्वप्रसिद्ध्यदैकान्तिकाशुद्धोपयोगसद्भावस्यैकान्तिकबन्धत्वेन छेदत्वमैकान्तिकमेव । अत एव निश्चयहिंसा नास्ति । ततः कारणाच्छुद्धपरमात्मभावनाबलेन निश्चयहिंसैव सर्वतात्पर्येण परिहर्तव्येति ॥ १८॥ अथ बहिरङ्गजीवघाते बन्धो भवति न भवति वा परिग्रहे सति नियमेन भवतीति प्रतिपादयति — हवदि व ण हवदि बंधो भवति वा न भवति, बन्धः कस्मिन्सति मदम्हि जीवे मृते सत्यन्यजीवे । अध अहो । कस्यां सत्याम् । कायचे म्ह कायचेष्टायाम् । तर्हि कथं बन्धो भवति । बंधो धुवमुवधीदो बन्धो भवति ध्रुवं निश्चितम् । कस्मादुपधेः परिग्रहात्सकाशादिति हेतोः समणा छड्डिया सबं श्रमणा महाश्रमणाः सर्वज्ञाः पूर्वं दीक्षकाले शुद्धबुद्धैकखभावं निजात्मानमेव परिग्रहं कृत्वा शेषं समस्तं बाह्याभ्यन्तरपरिग्रहं छर्दितवन्तः । एवं ज्ञात्वा शेषतपोधनैरपि निजपरमात्मपरिग्रहं स्वीकारं कृत्वा
अन्तरङ्गसंयमके घातका कारण, परजीवकी बाधारूप बहिरङ्गसंयमका भी घात सर्वथा त्याज्य है ॥ १८ ॥ आगे सर्वथा अन्तरङ्गसंयमका घातक होनेसे मुनिको परिग्रहका सर्वथा निषेध करते हैं— [ अथ ] आगे अर्थात् मुनिको परिग्रहसे संयमका घात दिखाते हैं, कि [कायचेष्टायां] मुनिकी हलन चलन क्रियाके होनेसे [ जीवे ] त्रस स्थावर जीवके [मृते सति ] मरनेपर [हि ] निश्चयसे [बन्धः ] कर्मलेप [ भवति ] होता है, [ वा ] अथवा [ न ] नहीं भी [ भवति ] होता है । किन्तु [ उपधेः ] परिग्रहसे [ बन्धः ] बन्ध [ ध्रुवं ] निश्चयसे होता ही है । [ इति ] ऐसा जानकर [ श्रमणाः ] महामुनि अरहंतदेव [ सर्वे ] समस्त ही परिग्रहको पहले ही [ त्यक्तवन्तः छोड़ते हैं । भावार्थ - मुनिके हलन चलनादि क्रियासे परजीवका जो घात होता है, उस घातसे मुनिके सर्वथा बन्ध नहीं होता, होता भी है, और नहीं भी होता है, यहाँ अनेकान्त है, एक नियम नहीं । क्योंकि यदि अन्तरङ्ग शुद्धोपयोग है, तो वन्ध नहीं होता । इसलिये बाह्य परप्राण घातसे शुद्ध अशुद्ध उपयोगके होने या न होने से वन्ध होता भी है, और नहीं भी होता है । मुनिके परजीवके धातसे बन्ध होवे भी,
]