________________
"
२७२
[ अ० ३, गा०. २
दुःखमोक्षार्थी तथा तत्प्रतिपद्यतां यथानुभूतस्य तत्प्रतिपत्तिर्वत्मनः प्रणेतारो वयमिमे तिष्ठाम इति ॥ १ ॥
अथ श्रमणो भवितुमिच्छन् पूर्वं किं किं करोतीत्युपदिशतिआपिच्छ बंधुवगं विमोचिदो गुरुकलत्तपुत्तेहिं । आसिज णाणदंसणचरित्ततववी रियायारं ॥ २ ॥ आपृच्छ्य वन्धुवर्गं विमोचितो गुरुकलत्रपुत्रैः । आसाद्य ज्ञानदर्शनचारित्रतपोवीर्याचारम् ॥ २ ॥
- रायचन्द्रजैनशास्त्रमाला -
-
#
---
यो हि नाम श्रमणो भवितुमिच्छति स पूर्वमेव बन्धुवर्गमापृच्छते, गुरुकलत्रपुत्रेभ्य आत्मानं विमोचयति, ज्ञानदर्शनचारित्रतपोवीर्याचारमासीदति । तथाहि — एवं चन्धुवर्गमापृच्छते, अहो इदंजनशरीरबन्धुवर्गवर्तिन आत्मानः अस्य जनस्य आत्मा न किंचनापि युष्माकं भवतीति निश्चयेन यूयं जानीत तत आपृष्टा यूयं, अयमात्मा अद्योद्भिन्नज्ञानज्योतिः आत्मानमेवात्मनोऽनादिबन्धुमुपसर्पति । अहो इदंजनशरीरजनकस्यात्मन्, अहो इदंजनशरीरजनन्या आत्मन् अस्य जनस्यात्मा न युवाभ्यां जनितो भवतीति निश्चयेन युवां जानीतं तत इममात्मानं युवां विमुञ्चतं, अयमात्मा अद्योद्भिन्नज्ञानज्योतिः नास्तीत्यभिप्रायः ॥ १ ॥ अथ श्रमणो भवन्निच्छन्पूर्वं क्षमितव्यं करोति — 'उवडिदो होदि सो समणो' इत्यग्रे पष्ठगाथायां यद्व्याख्यानं तिष्ठति तन्मनसि धृत्वा पूर्व किं कृत्वा श्रमणो भविष्यतीति व्याख्याति—आपिच्छ आपृच्छ्य पृष्ट्वा । कम् । बंधुवग्गं गोत्रम् । ततः कथंभूतो भवति । विमोचिदो विमोचितरत्यक्तो भवति । कैः कर्तृभूतैः । गुरुकलत्तपुत्तेहिं पितृमातृकलत्रपुत्रैः । पुनरपि किं कृत्वा श्रमणो भविष्यति । आसिज्ज आसाद्य आश्रित्य । कम् । णाणदंसणच - रित्ततववीरियायारं ज्ञानदर्शन चारित्रतपोवीर्याचारमिति । अथ विस्तरः - अहो बन्धुवर्गपितृमातृकलत्रपुत्राः, अयं मदीयात्मा सांप्रतमुनिपरमविवेकज्योतिस्सन् स्वकीयचिदानन्दैकखभावं परमात्मानमेव निश्चयनयेनानादिवन्धुवर्ग पितरं मातरं कलत्रं पुत्रं चाश्रयति तेन कारणेन मां मुञ्चत. यूयमिति क्षमितव्यं करोति । ततश्च किं करोति । परमचैतन्यमात्र निजात्मतत्त्व सर्व प्रकारोपादेय रुचिपरिच्छित्तिनिश्चलानुभूतिसमस्तपरद्रव्येच्छानिवृत्तिलक्षणतपश्चरण स्वशक्त्यनवगूहनवीर्याचाररूपं निश्चयपञ्चाचारमाचारादिचरणग्रन्थकथिततत्साधकव्यवहारपञ्चाचारं चाश्रयतीत्यर्थः । आचरण करो ॥ १ ॥ आगे जो मुनि होना चाहता है, वह पहले क्या क्या करे, उसकी परिपाटीको कहते हैं- [ बंधुवर्ग ] अपने कुटुंबसमूहको [ आपृच्छय ] पूँछकर [ गुरुकलत्रपुत्रैः ] मा वाप स्त्रीजन और पुत्र इनसे [ विमोचितः ] मुक्त हुआ [ ज्ञानदर्शनचारित्रतपोवीर्याचारं ] आठ प्रकारका ज्ञानाचार, आठ तरहका दर्शनाचार, तेरह प्रकारका चारित्राचार, वारहप्रकार तपाचार और आत्मशक्तिको प्राप्त करनेवाला ऐसा वीर्याचार, इस तरह पाँच आचारोंको [ आसाद्य ] स्वीकार करके