________________
*५.]
- प्रवचनसारः -
२६९ "जैनं ज्ञानं ज्ञेयतत्त्वप्रणेतृ स्फीतं शब्दब्रह्म, सम्यग्विगाह्य । संशुद्धात्मद्रव्यमात्रैकवृत्त्या नित्यं युक्तैः स्थीयतेऽस्माभिरेवम् ॥ १॥ ज्ञेयीकुर्वन्नञ्जसासीमविश्वं ज्ञानीकुर्वन् ज्ञेयमाक्रान्तभेदम् । आत्मीकुर्वन् ज्ञानमात्मान्यभासि स्फूर्जत्यात्मा ब्रह्म संपद्य सद्यः ॥ २॥ द्रव्यानुसारि चरणं चरणानुसारि द्रव्यं मिथो द्वयमिदं ननु सव्यपेक्षम् । तस्मान्मुमुक्षुरधिरोहतु मोक्षमार्ग द्रव्यं प्रतीत्य यदि वा चरणं प्रतीत्य ॥३॥" __ इति तत्त्वदीपिकायां प्रवचनसारवृत्तौ श्रीमदमृतचन्द्रसूरिविरचितायां ज्ञेयतत्त्वप्रज्ञापनो नाम द्वितीयः श्रुतस्कन्धः समाप्तः ॥ २॥
दसणसंसुद्धाणं सम्मण्णाणोवजोगजुत्ताणं ।
अवाबाधरदाणं णमो णमो सिद्धसाहूणं ॥ ५ ॥ णमो णमो नमो नमः पुनः पुनर्नमस्करोमीति भक्तिप्रकर्प दर्शयति । केभ्यः । सिद्धसाहूणं सिद्धसाधुभ्यः । पुनरपि कथंभूतेभ्यः । सिद्धशब्दवाच्यखात्मोपलब्धिलक्षणार्हत्सिद्धेभ्यः साधुशब्दवाच्यमोक्षसाधकाचार्योपाध्यायसाधुभ्यः । पुनरपि कथंभूतेभ्यः । दसणसंसुद्धाणं मूढत्यादिपञ्चविंशतिमलरहितसम्यग्दर्शनसंशुद्धेभ्यः । पुनरपि कथंभूतेभ्यः । सम्मण्णाणोवजोगजुत्ताणं संशयादिरहितं सम्यग्ज्ञानं तस्योपयोगः सम्यग्ज्ञानोपयोगः, योगो निर्विकल्पसमाधि:तरागचारित्रमित्यर्थः ताभ्यां युक्ताः सम्यग्ज्ञानोपयोगयुक्तास्तेभ्यः । पुनश्च किंरूपेभ्यः । अवावाधरदाणं सम्यग्ज्ञानादिभावनोत्पन्नाव्याबाधानन्तसुखरतेभ्यश्च ॥ ५॥ इति नमस्कारगाथासहित'स्थलचतुष्टयेन चतुर्थविशेषान्तराधिकारः समाप्तः । एवं 'अस्थित्तणिच्छिदस्स हि' इत्याद्येकादशगाथापर्यन्तं शुभाशुभशुद्धोपयोगत्रयमुख्यत्वेन प्रथमो विशेषान्तराधिकारस्तदनन्तरं 'अपदेसो परमाणू पदेसमेत्तो य' इत्यादिगाथानवकपर्यन्तं पुद्गलामां परस्परबन्धमुख्यावेन द्वितीयो विशेपान्तराधिकारस्ततः परं 'अरसमरूवं' इत्यादि एकोनविंशतिगाथापर्यन्तं जीवस्य पुद्गलकर्मणा सह बन्धमुख्यत्वेन तृतीयो विशेपान्तराधिकारस्ततश्च ण चयदि जो दु ममत्ति' इत्यादि द्वादशगाथापर्यन्तं विशेषभेदभावनाचूलिकाव्याख्यानरूपश्चतुर्थो चारित्रविशेपान्तराधिकार इत्येकाधिकपञ्चाशगाथाभिर्विशेषान्तराधिकारचतुष्टयेन विशेपभेदभावनाभिधानश्चतुर्थोऽन्तराधिकारः समाप्तः । इति श्रीजयसेनाचार्यकृतायां तात्पर्यवृत्तौ 'तम्हा दंसणमाई' इत्यादि पञ्चत्रिंशद्गाथापर्यन्तं सामान्यज्ञेयव्याख्यानं तदनन्तरं 'दवं जीव' इत्याघेकोनविंशतिगाथापर्यन्तं जीवपुद्गलधर्मादिभेदेन विशेपज्ञेयव्याख्यानं ततश्च 'सपदेसेहि समग्गो' इत्यादि गाथाष्टकपर्यन्तं सामान्यभेदभावना ततः परं 'अत्थित्तणिच्छिदस्स हि' इत्यायेकाधिकपञ्चाशद्गाथापर्यन्तं विशेषभेदभावना चेत्यन्तराधिकारचतुष्टयेन त्रयोदशाधिकशतगाथाभिः सम्यग्दर्शनाधिकारनामा ज्ञेयाधिकारापरसंज्ञो द्वितीयो महाधिकारः समाप्तः २
इति श्रीपांडे हेमराजकृत श्रीप्रवचनसार सिद्धांतकी वालाववोध
भापाटीकामें ज्ञेयतत्वका अधिकार पूर्ण हुआ ॥ २ ॥