________________
१८२
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा०३८द्रव्याणि तु भाववन्त्येव परिणामादेवोत्पद्यमानावतिष्ठमानभज्यमानत्वादिति निश्चयः । तत्र परिणाममात्रलक्षणो भावः, परिस्पन्दनलक्षणा क्रिया । तत्र सर्वाण्यपि द्रव्याणि परिणामस्वभावत्वात् परिणामेनोपात्तान्वयव्यतिरेकाण्यवतिष्ठमानोत्पद्यमानभज्यमानानि भाववन्ति भवन्ति । पुद्गलास्तु परिस्पन्दस्वभावत्वात्परिस्पन्देन भिन्नाः संघातेन संहताः पुनर्भेदेनोत्पद्यमानावतिष्ठमानभज्यमानाः क्रियावन्तश्च भवन्ति । तथा जीवा अपि परिस्पन्दस्वभावत्वात्परिस्पन्देन नूतनकर्मनोकर्मपुद्गलेभ्यो भिन्नास्तैः सह संघातेन संहताः पुनर्भेदेनोत्पद्यमानावतिष्ठमानभज्यमानाः क्रियावन्तश्च भवन्ति ॥ ३७॥ अथ द्रव्यविशेषो गुणविशेषादिति प्रज्ञापयतिलिंगेहिं जेहिं दत्वं जीवमजीवं च हवदि विण्णादं । तेऽतम्भावविसिट्ठा मुत्तामुत्ता गुणा णेया ॥ ३८॥ .
लिङ्गैर्द्रव्यं जीवोऽजीवश्च भवति विज्ञातम् ।
तेऽतद्भावविशिष्टा मूर्तामूर्ता गुणा ज्ञेयाः ॥ ३८॥ द्रव्यमाश्रित्य परानाश्रयत्वेन वर्तमानैर्लिङ्गयते गम्यते द्रव्यमेतैरिति लिङ्गानि गुणाः । ते पर्याया एव जीवपुद्गलानामर्थपर्यायव्यञ्जनपर्यायाश्च । कथमिति चेत् । प्रतिसमयपरिणतिरूपा अर्थपर्याया भण्यन्ते । यदा जीवोऽनेन शरीरेण सह भेदवियोगं त्यागं कृत्वा भवान्तरशरीरेण सह संघातं मेलापकं करोति तदा विभावव्यञ्जनपर्यायो भवति, तस्मादेव भवान्तमसंक्रमणात्सक्रियत्वं भण्यते पुद्गलानाम् । तथैव विवक्षितस्कन्धविघटनात्सक्रियत्वेन स्कन्धान्तरसंयोगे सति विभावव्यजनपर्यायो भवति । मुक्तजीवानां तु निश्चयरतत्रयलक्षणेन परमकारणसमयसारसंज्ञेन निश्चयमोक्षमार्गबलेनायोगिचरसमये नखकेशान्विहाय परमौदारिकशरीरस्य विलीयमानरूपेण विनाशे सति केवलज्ञानाद्यनन्तचतुष्टयव्यक्तिलक्षणेन परमकार्यसमयसाररूपेण स्वभावव्यञ्जनपर्यायेण कृत्वा योऽ सावुत्पादः स भेदादेव भवति न संघातात् । कस्मादितिचेत् । शरीरान्तरेण सह संबन्धाभावादिति भावार्थः ॥ ३७ ॥ एवं जीवाजीवत्वलोकालोकत्वसक्रियनिःक्रियत्वकथनक्रमेण प्रथमस्थले द्रव्य उत्पाद, व्यय, ध्रुवता सहित हैं, इस कारण हर एक समयमें पर्यायसे पर्यायांतर अर्थात् 'एक पर्यायसे दूसरे पर्यायरूप द्रव्य होते हैं, और क्रिया केवल जीव-पुद्गल ही में होती है । पुद्गलका हलन चलन स्वभाव है, इस कारण स्कंधसे मिलते भी हैं, और विछुड़ते भी हैं। इसलिये मिलने और विछुड़नेकी अपेक्षा उत्पाद, व्यय और ध्रुवपने सहित हैं, क्रियावाले हैं । इसी तरह जीव भी कर्मके संयोगसे हलन चलनरूप होता हुआ नवीन कर्म नोकर्मरूप -पुद्गलसे मिलता है, और पुराने कर्म नोकर्म पुद्गलोंसे विछड़ जाता है, इस कारण उत्पाद, व्यय, प्रौव्य सहित हुआ क्रियावाला है। इससे यह बात सिद्ध हुई, कि जीव और पुद्गल ये दो द्रव्य तो क्रियावान् भी है, और भाववाले भी हैं। तथा धर्मादिक चार द्रव्य केवल भाववन्त (परिणामवाले) ही हैं ॥ ३७ ॥ आगे गुणोंके भेदसे ही द्रव्योंमें