________________
३५.] -
'प्रवचनसारः
द्रव्यं जीवोऽजीवो जीवः पुनश्चेतनोपयोगमयः । पुद्गलद्रव्यप्रमुखोऽचेतनो भवति चाजीवः ॥ ३५ ॥
१७९
·
इह हि द्रव्यमेकत्वनिबन्धनभूतं द्रव्यत्वसामान्यमनुज्झदेव तदधिरूढधिशेषलक्षणसद्भावादन्योन्यव्यवच्छेदेन जीवाजीवत्वविशेषमुपढौकते । तत्र जीवस्यात्मद्रव्यमेवैका व्यक्तिः । अजीवस्य पुनः पुद्गलद्रव्यं धर्मद्रव्यमधर्मद्रव्यं कालद्रव्यमाकाशद्रव्यं चेति पञ्च व्यक्तयः । विशेषलक्षणं जीवस्य चेतनोपयोगमयत्वं, अजीवस्य पुनरचेतनत्वम् । तत्र यत्र स्वधर्मव्यापकत्वात्स्वरूपत्वेन द्योतमानयानपायिन्या भगवत्या संवित्तिरूपया चेतनया तत्परिगता । इत्युक्तप्रकारेण 'तम्हा तस्स णमाई' इत्यादि पञ्चत्रिंशत्सूत्रः सामान्यज्ञेयाधिकारव्याख्यानं समाप्तम् । इत ऊर्ध्वमेकोनविंशतिगाथाभिर्जीवाजीवद्रव्यादिविवरणरूपेण विशेपज्ञेयव्याख्यानं करोति । तत्राष्टस्थानानि भवन्ति । तेष्वादौ जीवाजीवत्वकथनेन प्रथमगाथा, लोका- . लोकत्वकथनेन द्वितीया, सक्रियनिः क्रियत्वव्याख्यानेन तृतीया चेति । 'दवं जीवमजीवं' इत्यादि - गाथात्रयेण प्रथमस्थलम्, तदनन्तरं ज्ञानादिविशेषगुणानां स्वरूपकथनेन 'लिंगेहिं जेहिं' इत्यादिगाथाद्वयेन प्रथमस्थलम् । अथानन्तरं स्वकीयस्वकीयगुणोपलक्षितद्रव्याणां निर्णयार्थ 'वण्णरस' इत्यादिगाथात्रयेण तृतीयस्थलम् । अथ पञ्चास्तिकायकयन मुख्यत्वेन 'जीवा पोग्गलकाया ' इत्यादिगाथाद्वयेन चतुर्थस्थलम् । अतः परं द्रव्याणां लोकाकाशमाधार इति कथनेन प्रथमा, यदेवाकाशद्रव्यस्य प्रदेशलक्षणं तदेव शेषाणामिति कथनरूपेण द्वितीया चेति, 'लोगालोगेसु' इत्यादिसूत्रद्वयेन पञ्चमस्थलम् । तदनन्तरं कालद्रव्यस्याप्रदेशत्वस्थापनरूपेण प्रथमा, समयरूपः पर्यायकालः कालाणुरूपो द्रव्यकाल इति कथनरूपेण द्वितीया चेति 'समओ दु अप्पदेसो' इत्यादिगाथाद्वयेन षष्ठस्थलम् । अथ प्रदेशलक्षणकथनेन प्रथमा, तदनन्तरं तिर्यक्प्रचयोर्ध्वप्रचयस्त्ररूपकथनेन द्वितीया चेति, 'आयासमणुणिविट्ठ' इत्यादिसूत्रद्वयेन सप्तमस्थलम् । तदनन्तरं कालाणुरूपद्रव्यकालस्थापनरूपेण 'उप्पादो पद्धसो' इत्यादिगाथात्रयेणाष्टमस्थलमिति विशेपज्ञेयाधिकारे समुदायपातनिका । तद्यथा— अथ जीवाजीवलक्षणमावेदयति-दवं जीवमजीवं द्रव्यं जीवाजीवलक्षणं भवति जीवो पुण चेदणो जीवः पुनश्चेतनः खतः सिद्धया बहिरङ्गकारणनिरपेक्षया बहिरन्तश्च प्रकाशमानया नित्यरूपया निश्चयेन परमशुद्धचेतनया व्यवहारेण पुनरशुद्धचेतनया च युक्तत्वाच्चेतनो भवति । पुनरपि किंविशिष्टः । उवजोगमओ
आगे द्रव्य विशेषका कहना आरंभ करते हुए पहले द्रव्यके 'जीव और अजीव' ऐसे दो भेद दिखलाते हैं-[ द्रव्यं ] सत्तारूप वस्तु [ जीवः अजीवः ] जीव अजीव इस तरह दो भेदरूप है, [ पुनः ] और इन दोनोंमेंसे [ जीवः ] जीवद्रव्य [ चेतनोपयोगमयः ] चेतना और ज्ञानदर्शनोपयोगमयी है, [ पुद्गलद्रव्यप्रमुखः ] तथा पुद्गल द्रव्यको आदि लेकर पाँच द्रव्य [ अचेतनः ] चेतना रहित अर्थात् जड़स्वरूप [ अजीवः ] अजीव द्रव्य होता है । भावार्थ - द्रव्यके दो भेद हैं, एक जीव, दूसरा अजीव । इन