________________
२४.]
"
इह हि संसारिणो जीवस्यानादिकर्मपुद्गलोपाधिसन्निधिप्रत्ययप्रवर्तमानप्रतिक्षणविवर्तनस्य क्रिया किल स्वभावनिर्वृत्तितास्ति । ततस्तस्य मनुष्यादिपर्यायेषु च न कश्चनाप्येष एवेति टोत्कीर्णोऽस्ति तेषां पूर्वपूर्वोपमर्द प्रवृत्तक्रियाफलत्वेनोत्तरोत्तरोपमर्द्यमानत्वात् फलमभिलयेत वा मोहसंवलनाविलयनात् क्रियायाः । क्रिया हि तावच्चेतनस्य पूर्वोत्तरदशाविशिष्टगतम् । एवं पूर्वोक्तप्रकारेण प्रथमा नमस्कारगाथा, द्रव्यगुणपर्यायकथनरूपेण द्वितीया, स्वसमयपरसमयप्रतिपादनेन तृतीया, द्रव्यस्य सत्तादिलक्षणत्रयसूचनरूपेण चतुर्थीति खतन्त्रगाथाचतुष्टयेन पीठिकास्थलम् । तदनन्तरमवान्तरसत्ताकथनरूपेण प्रथमा, महासत्तारूपेण द्वितीया, यथा द्रव्यं स्वभावसिद्धं तथा सत्तागुणोऽपीति कथनरूपेण तृतीया, उत्पादव्ययध्रौव्यत्वेऽपि सत्चैव द्रव्यं भवतीति कथनेन चतुर्थीति गाथाचतुष्टयेन सत्तालक्षणविवरण मुख्यता । तदनन्तरमुत्पादव्ययध्रौव्य लक्षणविवरण मुख्यत्वेन गाथात्रयं तदनन्तरं द्रव्यपर्यायकथनेन गुणपर्यायकथनेन च गाथाद्वयं ततश्च द्रव्यस्यास्तित्वस्थापनारूपेण प्रथमा, पृथक्त्वलक्षणस्यातद्भावाभिधानत्वलक्षणस्य च कथनरूपेण द्वितीया, संज्ञालक्षणप्रयोजनादिभेदरूपस्यातद्भावस्य विवरणरूपेण तृतीया, तस्यैव दृढीकरणार्थ चतुर्थीति गाथाचतुष्टयेन सत्ताद्रव्ययोरभेदविषये युक्तिकथनमुख्यता । तदनन्तरं सत्ताद्रव्ययोर्गुणगुणिकथनेन प्रथमा, गुणपर्यायाणां द्रव्येण सहाभेदकथनेन द्वितीया चेति खतन्त्रगाथाद्वयम् । तदनन्तरं द्रव्यस्य सदुत्पादासदुत्पादयोः सामान्यव्याख्यानेन विशेषव्याख्यानेन च गाथाचतुष्टयं, ततश्च सप्तभङ्गीकथनेन गाथैका चेति समुदायेन चतुर्विंशतिगाथाभिरष्टभिः स्थलैः सामान्यज्ञेयव्याख्यानमध्ये सामान्यद्रव्यप्ररूपणं समाप्तम् । अतः परं तत्रैव सामान्यद्रव्यनिर्णयमध्ये सामान्यभेदभावना मुख्यत्वेनैकादशगाथापर्यन्तं व्याख्यानं करोति । तत्र क्रमेण पञ्चस्थानानि भवन्ति । प्रथमस्तावद्वार्तिकव्याख्यानाभिप्रायेण सांख्यैकान्तनिराकरणं, अथवा शुद्धनिश्चयनयेन कर्मफलं भवति, न च शुद्धात्मखरूपमिति तस्यैवाधिकारसूत्रस्य विवरणार्थ 'कम्मं णामसमक्खं ' इत्यादिपाठक्रमेण गाथाचतुष्टयं, ततः परं रागादिपरिणाम एव द्रव्यकर्मकारणत्वाद्भावकर्म भण्यत इति परिणाममुख्यत्वेन 'आदा कम्ममलिमसो' इत्यादिसूत्रद्वयं, तदनन्तरं कर्मफलचेतना कर्मचेतना ज्ञानचेतनेति त्रिवि - धचेतनाप्रतिपादनरूपेण 'परिणमदि चेदणाए' इत्यादिसूत्रद्वयं तदनन्तरं शुद्धात्मभेदभावनाफलं कथयन् सन् 'कत्ताकरणं' इत्याद्येकसूत्रेणोपसंहरति । एवं भेदभावनाधिकारे वसे जुदा हैं, ऐसा दिखलाते हैं - [ एषः ] यह पर्याय टंकोत्कीर्ण अविनाशी है, [ इति ] ऐसा [ कश्चित् ] नर नारकादि पर्यायोंमें कोई भी पर्याय [ नास्ति ] नहीं है । और [ स्वभावनिर्वृत्ता ] रागादि अशुद्ध परिणतिरूप विभाव स्वभावकर उत्पन्न हुई जो [क्रिया ] जीवकी अशुद्ध कर्तव्यता [ नास्ति न ] वह नहीं है, ऐसा भी नहीं, अर्थात् क्रिया तो अवश्य है। [यदि ] जो [ परमः धर्मः ] उत्कृष्ट वीतराग भाव [निष्फलः ] नर नारकादि पर्यायरूप फलकरके रहित है, तो [हि ] निश्चयसे [ क्रिया ] रागादि परणमनरूप क्रिया [ अफला ] फल रहित [ नास्ति ] नहीं है, अर्थात् क्रिया फलवती
--
प्रवचनसारः
BO
१६३