________________
१५२.
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० १७ - मित्यत्राप्यपोहरूपत्वं स्यात् । ततो द्रव्यगुणयोरेकत्वमशून्यत्वमनपोहत्वं चेच्छता. यथोदित एवातद्भावोऽभ्युपगन्तव्यः ॥ १६ ॥ .अथ सत्ताद्रव्ययोर्गुणगुणिभावं साधयति
जो खलु दवसहायो परिणामो सो गुणो सदविसिहो। सदवहिदं सहावे दवति जिणोवदेसोयं ॥१७॥
यः खलु द्रव्यस्वभावः परिणामः स गुणः सदविशिष्टः ।
सदवस्थितं स्वभावे द्रव्यमिति जिनोपदेशोऽयम् ॥ १७॥ द्रव्यं हि स्वभावे नित्यमवतिष्ठमानत्वात्सदिति प्राक् प्रतिपादितम् । स्वभावस्तु द्रव्यस्य परिणामोऽभिहितः । य एव द्रव्यस्य स्वभावभूतः परिणामः, स एव सदविशिष्टो गुण इतीह साध्यते । यदेव हि द्रव्यस्वरूपवृत्तिभूतमस्तित्वं द्रव्यप्रधाननिर्देशात्सदिति संशब्धते तदविशिष्टगुणभूत एव द्रव्यस्य स्वभावभूतपरिणामः द्रव्यवृत्तेहि त्रिकोटिसमयस्पशिन्याः प्रतिक्षणं तेन स्वभावेन परिणमनाद्रव्यस्वभावभूत एव तावत्परिणामः । स संज्ञादिभेदभिन्नस्यातद्भावस्तस्य सत्तागुणेन सह प्रदेशाभेदव्याख्यानं कृतं तथा सर्वद्रव्येषु यथासंभवं ज्ञातव्यमित्यर्थः ॥ १६ ॥ एवं द्रव्यस्यास्तित्वकथनरूपेण प्रथमगाथा पृथक्त्वलक्षणातद्भावविधानान्यत्वलक्षणयोः कथनेन द्वितीया संज्ञालक्षणप्रयोजनादिभेदरूपस्यातद्भावस्य 'विवरणरूपेण तृतीया तस्यैव दृढ़ीकरणार्थं च चतुर्थी द्रव्यगुणयोरभेदविषये युक्तिकथनमुख्यतया गाथाचतुष्टयेन पञ्चमस्थलं गतम् । अथ सत्ता गुणो भवति द्रव्यं च गुणी भवतीति प्रतिपादयतिजो खलु दवसहावो परिणामो यः खलु स्फुटं द्रव्यस्य खभावभूतः परिणामः पञ्चेन्द्रियविषयानुभवरूपमनोव्यापारोत्पन्नसमस्तमनोरथरूपविकल्पजालाभावे सति यश्चिदानन्दैकानुभूतिरूपः स्वस्थभावस्तस्योत्पादः, पूर्वोक्तविकल्पजालविनाशो व्ययः, तदुभयाधारभूतं जीवत्वं ध्रौव्यमित्युक्तलक्षणोत्पादव्ययध्रौव्यात्मकजीवद्रव्यस्य खभावभूतो योऽसौ परिणामः सो गुणो स गुणो भवति स परिणामः । कथंभूतः सन्गुणो भवति । सदविसिट्ठो सतोऽस्तित्वादविशिष्टोऽभिन्नस्तदुत्पादादित्रयं तिष्ठत्यस्तित्वं चैकं तिष्ठत्यस्तित्वेन सह कथमभिन्नो चाहते हैं, दोनोंका नाश नहीं चाहते हैं, और अपोहरूपत्व दोषसे जुदा रहना चाहते हैं, उन्हें भगवान् वीतरागदेवने जो गुण-गुणीमें व्यवहारसे अन्यत्व-भेद दिखलाया है, . उसे अंगीकार करना चाहिये, सर्वथा अभावरूप मानना योग्य नहीं है ॥ १६ ॥ आगे सत्ता और द्रव्यका गुण-गुणी-भाव दिखलाते हैं-[षः ] जो [खलु] निश्चयसे [ द्रव्यस्वभावः] द्रव्यका स्वभावभूत [ परिणामः] उत्पाद, व्यय, ध्रुवरूप त्रिकाल संबंधी परिणाम है, [स] वह [सदविशिष्टः ] सत्तासे अभिन्न अस्तित्वरूप [गुणः ] गुण है । और [स्वभावे ] अस्तित्वरूप सत्ता-स्वभावमें [ अवस्थितं द्रव्यं] तिष्ठता हुआ द्रव्य [ सत् ] सत्ता कहलाता है, [इति] इस प्रकार [ अयं]