________________
१५० . -रायचन्द्रजैनशास्त्रमाली = [अ० २, गा० १६
भूतः । तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो न पर्यायो यच्च द्रव्य• मन्यो गुणः पर्यायो वा स न सत्तागुण इतीतरेतरस्य यस्तस्याभावः स तदभावलक्षणोऽतद्भावोऽन्यत्वनिबन्धनभूतः ॥ १५ ॥ अथ सर्वथाऽभावलक्षणत्वमतद्भावस्य निषेधयति
जं दवं लण्ण गुणो जो वि गुणो सो ण तचमत्थादो। एसो हि अतभावो णेच अभावो त्ति णिदिहो ॥ १६ ॥
यद्रव्यं तन्न गुणो योऽपि गुणः स न तत्त्वमर्थात् ।
एष ह्यतद्भावो नैव अभाव इति निर्दिष्टः ॥ १६ ॥ एकस्मिन्द्रव्ये यद्रव्यं गुणो न तद्भवति, यो गुणः सः द्रव्यं न भवतीत्येवं यद्रव्यस्य गुणरूपेण गुणस्य वा द्रव्यरूपेण तेनाभवनं सोऽतद्भावः । एतावतैवान्यत्वव्यवहारसिद्धेर्न पुनद्रव्यस्याभावो गुणो गुणस्याभावो द्रव्यमित्येवंलक्षणोऽभावोऽतद्भाव, एवं सत्येकद्रव्यस्यानेकत्वमुभयशून्यत्वमपोहरूपत्वं वा स्यात् । तथाहि-यथा खलु चेतनद्रव्यस्याभावोऽचेतनद्रव्यमचेतनद्रव्यस्याभावश्चेतनद्रव्यमिति तयोरनेकत्वं, तथा द्रव्यस्याभावो गुणो गुणस्थाभावो द्रव्यमित्येकस्यापि द्रव्यस्यानेकत्वं स्यात् । यथा सुवर्णस्याभावे सुवर्णत्वस्याभावः सुवर्णत्वस्याभावे सुवर्णस्याभाव इत्युभयशून्यत्वं, तथा द्रव्यस्याभावे गुणस्याभावो गुणइति । तथा मुक्तजीवे योऽसौ शुद्धसत्तागुणस्तद्वाचकेन सत्ताशब्देन मुक्तजीवो वाच्यो न भवति केवलज्ञानादिगुणो वा सिद्धपर्यायो वा मुक्तजीवकेवलज्ञानादिगुणसिद्धपर्यायैश्च शुद्धसत्तागुणो वाच्यो न भवति । इत्येवं परस्परं प्रदेशभेदेऽपि योऽसौ संज्ञादिभेदः संस्तस्य पूर्वोक्तलक्षणतद्भावस्याभावस्तद्भावो भयो । स च तदभावः पुनरपि किं भण्यते । अतद्भावः संहालक्षणप्रयोजनादिभेद इत्यर्थः । यथात्र शुद्धात्मनि शुद्धसत्तागुणेन सहाभेदः स्थापितस्तथा यथासंभवं सर्वद्रव्येषु ज्ञातव्य इत्यभिप्रायः ॥ १५ ॥ अथ गुणगुणिनोः प्रदेशभेदनिषेधेन तमेव संज्ञादिभेदरूपमतद्भावं द्रढयति-जं दवं तण्ण गुणो
और पर्याय नहीं है, तथा जो द्रव्य गुण पर्याय हैं, सो सत्ता नहीं है, ऐसा आपसमें भेद है। सारांश यह है, कि सत्ताके स्वरूपका अभाव द्रव्य, गुण, पर्यायोंमें है, और द्रव्य, गुण, पर्यायके स्वरूपका अभाव सत्तामें है। इस प्रकार गुण-गुणी-भेद है, प्रदेश-भेद नहीं है। यही अन्यत्व नामक भेद है ॥ १५॥ आगे सर्वथा अभावरूप गुण-गुणी-भेदका निषेध करते हैं-[यद् ] जो [द्रव्यं] द्रव्य है, [तत्] सो [गुणः न] गुण नहीं है, और [यः] जो [ अपि] निश्चयसे [गुणः] गुण है, [सः] वह [ अर्थात् ] - स्वरूपके भेदसे [तत्त्वं न] द्रव्य नहीं है । [एषः हि ] यह गुण-गुणी भेदरूप ही