________________
-प्रवचनसार:
१३.]
१४५ न भवति यदि सद्रव्यमसद्भुवं भवति तत्कथं द्रव्यम् ।
भवति पुनरन्यद्वा तस्माद्रव्यं स्वयं सत्ता ॥ १३॥ यदि हि द्रव्यं स्वरूपत एव सन्न स्यात्तदा द्वितयी गतिः असद्वा भवति, सत्तातः पृथग्वा भवति । तत्रासद्भवद्रौव्यस्थासंभवादात्मानमधारयद्रव्यमेवास्तं गच्छेत् । सत्तातः पृथग्भवत् सत्तामन्तरेणात्मानं धारयत्तावन्मात्रप्रयोजनां सत्तामेवास्तं गमयेत् । स्वरूपतस्तु सद्भवद्रौव्यस्य संभवादात्मानं धारयद्रव्यमुद्गच्छेत् । सत्तातोऽपृथग्भूत्वा चात्मानं
गाथाद्वयेन चतुर्थस्थलं गतम् । अथ सत्ताद्रव्ययोरभेदविषये पुनरपि प्रकारान्तरेण युक्तिं दर्शयति--ण हवदि जदि सद्दवं परमचैतन्यप्रकाशरूपेण स्वरूपेण खरूपसत्तास्तित्वगुणेन यदि चेत् सन्न भवति । किं कर्तृ । परमात्मद्रव्यं तदा असद्धवं होदि असदविद्यमानं भवति ध्रुवं निश्चितम् । अविद्यमानं सत् तं कहं दवं तत्परमात्मद्रव्यं कथं भवति किंतु नैव । स च प्रत्यक्षविरोधः । कस्मात् । खसंवेदनज्ञानेन गम्यमानत्वात् । अथाविचारितरमणीयन्यायेन सत्तागुणाभावेऽप्यस्तीति. चेत् तत्र विचार्यते-यदि केवलज्ञानदर्शनगुणाविनाभूतखकीयस्वरूपास्तित्वात्पृथग्भूता तिष्ठति तदा स्वरूपास्तित्वं नास्ति खरूपास्तित्वाभावे द्रव्यमपि नास्ति । अथवा खकीयखरूपास्तित्वात्संज्ञालक्षणप्रयोजनादिभेदेऽपि प्रदेशरूपेणाभिन्नं तिष्ठति तदा संमतमेव । अत्रावसरे सौगतमतानुसारी कश्चिदाह-सिद्धपर्यायसत्तारूपेण शुद्धात्मद्रव्यमुपचारेणास्ति, न च मुख्यवृत्त्येति । परिहारमाह-सिद्धपर्यायोपादानकारणभूतपरमात्मद्रव्याभावे सिद्धपर्यायसत्तैव न संभवति वृक्षाभावे फलमिव । अत्र प्रस्तावे नैयायिकमतानुसारी कश्चिदाह-हवदि पुणो
ध्रुव अर्थात् निश्चित सत्तारूप वस्तु [असत्] अवस्तुरूप [ भवति ] हो जावे, तथा [तत्] वह सत्ता रहित वस्तु [ द्रव्यं] द्रव्य स्वरूप [कथं ] कैसे [ भवति ] होवे, [वा ] अथवा [पुनः] फिर [अन्यत्] सत्तासे भिन्न द्रव्य [भवति] होवे । [तस्मात् ] इस कारण [द्रव्यं] द्रव्य [खयं सत्ता] आप ही सत्तास्वरूप है, भेद नहीं है। भावार्थ-जो द्रव्य सत्तारूप न होवे, तो दोष आते हैं । या तो द्रव्य असत् होता है, या सत्तासे जुदा होता है। परंतु जो द्रव्य असत् होगा, तो सत्ताके विना ध्रुव नहीं होगा, जिससे कि द्रव्यके नाशका प्रसंग आ जावेगा । और यदि सत्तासे द्रव्य पृथक् हो, तो द्रव्य सत्ताके विना भी अपने स्वरूपको धारण करे, जिससे कि सत्ताका कुछ प्रयोजन ही न रहे, क्योंकि सत्ताका कार्य यही है, कि द्रव्यके स्वरूपका अस्तित्व करे, सो यदि द्रव्य ही अपने स्वरूपको जुदा धारण करेगा, तो सत्ताका फिर प्रयोजन ही क्या रहेगा ? इस न्यायसे सत्ताका नाश होगा । परंतु जो द्रव्य सत्तारूप होगा, तो द्रव्य ध्रुव होगा, जिसके . होनेसे द्रव्यका नाश न होगा। यदि सत्तासे
प्र० १९