________________
११४
- रायचन्द्र जैनशास्त्रमाला -
अथ जिनोदितार्थश्रद्धानमन्तरेण धर्मलाभो न भवतीति प्रतर्कयति - सत्तासंबद्वेदे सविसेसे जो हि णेव सामण्णे । सहहृदि ण सो समणो तत्तो धम्मो ण संभवदि ॥ ९१ ॥ सत्तासंबद्धानेतान् सविशेषान् यो हि नैव श्रामण्ये |
[अ० १, गा०-९१ -
श्रद्दधाति न स श्रमणः ततो धर्मो न संभवति ॥ ९१ ॥
यो हि नामैतानि सादृश्यास्तित्वेन सामान्यमनुव्रजन्त्यपि स्वरूपास्तित्वेनाश्लिष्टविशेपाणि द्रव्याणि स्वपरावच्छेदेनापरिच्छिन्दन्नश्रद्दधानो वा एवमेव श्रामण्येनात्मानं दमयति स खलु न नाम श्रमणः । यतस्ततोऽपरिच्छिन्नरेणुकनककणिका विशेषाद्धूलिधावकात्कनकलाभ इव निरुपरागात्मतत्त्वोपलम्भलक्षणो धर्मोपलम्भो न संभूतिमनुभवति ॥ ९१ ॥ अथ 'उवसंपयामि सम्मं जत्तो णिवाणसंपत्ती' इति प्रतिज्ञाय 'चारितं खलु धम्मो धम्मो जो सो समो त्ति णिद्दिट्ठो' इति साम्यस्य धर्मं निश्चित्य 'परिणमदि जेण दव्वं तक्कालं तम्मय त्ति पण्णत्तं तम्हा' इति यदात्मनो धर्मत्वमासूत्रयितुमुपक्रान्तं, सह मोहो नास्तीत्यभिप्राय: ॥ ९० ॥ एवं स्वपरपरिज्ञानविषये मूढत्वनिरासार्थ गाथाद्वयेन चतुर्थज्ञानकण्ठिका गता । इति पञ्चविंशतिगाथाभिर्ज्ञानकण्ठिकाचतुष्टयाभिधानो द्वितीयोऽघिकारः समाप्तः । अथ निर्दोषिपरमात्मप्रणीतपदार्थश्रद्धानमन्तरेण श्रमणो न भवति, तस्माच्छुद्धोपयोगलक्षणधर्मोऽपि न संभवतीति निश्चिनोति - सत्तासंबद्धे महासत्तासंबन्धेन सहितान् एदे एतान् पूर्वोक्तशुद्धजीवादिपदार्थान् । पुनरपि किं विशिष्टान् । सविसेसे विशेषसत्तावान्तरसत्ताखकीयखरूपसत्ता तया सहितान् जो हि णेव सामण्णे सद्दहदि यः कर्ता द्रव्यश्श्रामण्ये स्थितोऽपि न श्रद्धत्ते हि स्फुटं ण सो समणो निजशुद्धात्मरुचिरूपनिश्चयसम्यत्तत्वपूर्वकपरमसामायिकसंयमलक्षणश्रामण्याभावात्स श्रमणो न भवति । इत्थंभूतभावश्रामण्याभावात् तत्तो धम्मो ण संभवदि तस्मात्पूर्वोक्तद्रव्यश्रमणात्सकाशान्निरु परागशुद्धात्मानुभूतिलक्षणध
अव कहते हैं, कि वीतरागदेव कथित पदार्थों की श्रद्धाके विना इस जीवको आत्म- धर्मका लाभ नहीं होता - [ यः ] जो जीव [हि ] निश्चयसे [ श्रामण्ये ] यति अवस्था में [ सत्तासंबद्धान् ] सत्ता भावसे सामान्य अस्तिपने सहित और [ सविशेषान् ] अपने अपने विशेष अस्तित्व सहित [ एतान् ] इन छह द्रव्योंको [ नैव श्रद्दधाति ] नहीं श्रद्धान करता, [सः ] वह जीव [ श्रमणः ] मुनि [न] नहीं है, और [ तत: ] उस द्रव्यलिंगी ( बाह्य भेपधारी) मुनिसे [ धर्मः ] शुद्धोपयोगरूप आत्मीक - धर्म [ न संभवति ] नहीं हो सकता । भावार्थ - अस्तित्व दो प्रकारका है, एक सामान्य अस्तित्व, दूसरा विशेष अस्तित्व । जैसे वृक्ष जातिसे वृक्ष एक हैं, आम - निम्बादि भेदोंसे पृथक् पृथक् हैं, इसी प्रकार द्रव्य सामान्य अस्तित्वसे एक है, विशेष अस्तित्वसे अपने जुदा जुदा स्वरूप सहित है । इन सामान्य विशेष भाव संयुक्त द्रव्योंको जो जीव मुन अवस्था धारण करके नहीं जानता है, और स्व पर भेद सहित श्रद्धान नहीं करता है,