________________
६०.1 - प्रवचनसारः -
७९ कान्तिकसुखत्वं न स्यात् । खेदस्यायतनानि घातिकर्माणि, न नाम केवलं परिणाममात्रम् । घातिकर्माणि हि महामोहोत्पादकत्वादुन्मत्तकवदतस्मिंस्तद्बुद्धिमाधाय परिच्छेद्यमर्थं प्रत्यात्मानं यतः परिणामयति, ततस्तानि तस्य प्रत्यर्थं परिणम्य परिणम्य श्राम्यतः खेदनिदानतां प्रतिपद्यन्ते । तदभावात्कुतो हि नाम केवले खेदस्योद्भेदा, यतश्च त्रिसमयावच्छिन्नसकलपदार्थपरिच्छेद्याकारवैश्वरूप्यप्रकाशनास्पदीभूतं चित्रभित्तिस्थानीयमनन्तस्वरूपं स्वयमेव परिणमत्केवलमेव परिणामः, ततः कुतोऽन्यः परिणामो यहारेण खेदस्यात्मलाभः । यतश्च * समस्तस्वभावप्रतिघाताभावात्समुल्लसितनिरङ्कुशानन्तशक्तितया सकलं त्रैकालिकं लोकालोकाकारमभिव्याप्य कूटस्यत्वेनात्यन्तनिःप्रकम्पं व्यवस्थितत्वादनाकुलतां सौख्यलक्षणभूतामात्मनोऽव्यतिरिक्तां बिभ्राणं केवलमेव सौख्यम् । ततः कुतः केवलसुखयोर्व्यतिरेकः। अतः सर्वथा केवलं सुखमैकान्तिकमनुमोदनीयम् ॥ ६० ॥ एव सुखरूप एवेति । इदानीं विस्तरः-ज्ञानदर्शनावरणोदये सति युगपदर्थान् ज्ञातुमशक्यत्वात् क्रमकरणव्यवधानग्रहणे खेदो भवति, आवरणद्वयाभावे सति युगपद्हणे केवलज्ञानस्य खेदो नास्तीति सुखमेव । तथैव तस्य भगवतो जगत्रयकालत्रयवर्तिसमस्तपदार्थयुगपत्परिच्छित्तिसमर्थमखण्डैकरूपं प्रत्यक्षपरिच्छित्तिमयं खरूपं परिणमत्सत् केवलज्ञानमेव परिणामो न च केवलज्ञानाद्भिन्नपरिणामोऽस्ति येन खेदो भविष्यति । अथवा परिणामविषये द्वितीयव्याख्यानं क्रियते-युगपदनन्तपदार्थपरिच्छित्तिपरिणामेऽपि वीर्यान्तरायनिरवशेषक्षयादनन्तवीर्यत्वात् खेदकारणं नास्ति, तथैव च शुद्धात्मसर्वप्रदेशेषु समरसीभावेन परिणममानानां सहजशुद्धानन्दैकलक्षणसुखरसास्वादपरिणतिरूपामात्मनः सकाशादभिन्नामनाकुलतां प्रति खेदो नास्ति । संज्ञालक्षणप्रयोजनादिभेदेऽपि निश्चयेनाभेदरूपेण परिणममानं केवलज्ञानमेव केवलज्ञानके [खेदः] आकुलभाव [न अणितः] नहीं कहा है, [यस्मात् ] क्योंकि [घातीनि ] ज्ञानावरणादि चार घातियाकर्म [क्षयं] नाशको [जातानि] प्राप्त हुए हैं। भावार्थ-मोहकर्मके उदयसे यह आत्मा मतवालासा होकर असत्य . वस्तुमें सत् बुद्धिको धारता हुआ ज्ञेय पदार्थों में परिणमन करता है, जिससे कि वे घातियाकर्म इसे इन्द्रियोंके आधीन करके पदार्थके जाननेरूप परिणमाते परिणमाते खेदके कारण होते हैं । इससे सिद्ध हुआ, कि घातियाकर्मोंके होनेपर आत्माके जो अशुद्ध ज्ञानपरिणाम हैं, वे खेदके कारण हैं-अर्थात् ज्ञानको खेदके कारण घातियाकर्म हैं। परंतु जहाँ इन घातियाकर्मोंका अभाव है, वहाँ केवलज्ञानावस्थामें खेद नहीं हो सकता, क्योंकि "कारणके अभावसे कार्यका भी अभाव हो जाता है। ऐसा न्याय है। एक ही समय त्रिकालवर्ती सब ज्ञेयोंको जानने में समर्थ चित्र विचित्र भीतकी तरह अनन्तस्वरूप परिणाम हैं, वह केवलज्ञान परिणाम है। इस स्वाधीन परिणाममें खेदके उत्पन्न होनेकी संभावना कैसे • हो सकती है ? ज्ञान स्वभावके घातनेवाले कर्मोका नाश होनेसे ज्ञानकी अनंतशक्ति प्रगट