________________
५४.] '.. - प्रवचनसारः
' ७१ · · अथातीन्द्रियसौख्यसाधनीभूतमतीन्द्रियज्ञानमुपादेयमभिष्टौति
जं पेच्छदो अमुत्तं मुत्तेसु अदिदियं च पच्छण्णं । __ सयलं सगं च इदरं तं गाणं हवदि पञ्चक्खं ॥ ५४॥
यत्प्रेक्षमाणस्यामूर्त मूर्तेष्वतीन्द्रियं च प्रच्छन्नम् ।
सकलं स्वकं च इतरत् तद्ज्ञानं भवति प्रत्यक्षम् ॥ ५४ ॥ अतीन्द्रियं हि ज्ञानं यदमूर्त यन्मूर्तेष्वप्यतीन्द्रियं यत्प्रच्छन्नं च तत्सकलं स्वपरविकल्पान्तःपाति प्रेक्षत एव । तस्य खल्वमूर्तेषु धर्माधर्मादिषु, मूर्तेष्वप्यतीन्द्रियेषु परमाण्वादिषु द्रव्यप्रच्छन्नेषु कालादिषु, क्षेत्रप्रच्छन्नेष्वलोकाकाशप्रदेशादिषु, कालप्रच्छन्नेष्वसांप्रतिक
त्वाद्धेयमिति तात्पर्यम् ॥ ५३ ॥ एवमधिकारगाथया प्रथमस्थलं गतम् । अथ पूर्वोक्तमुपादेयभूतमतीन्द्रियज्ञानं विशेषेण व्यक्तीकरोति-जं यदन्तीन्द्रियं ज्ञानं कर्तृ पेच्छदो प्रेक्षमाणपुरुषस्य जानाति । किं किम् । अमुत्तं अमूर्तमतीन्द्रियनिरुपरागसदानन्दैकसुखखभावं यत्परमात्मद्रव्यं तत्प्रभृति समस्तामूर्तद्रव्यसमूहं मुत्तेसु अदिदियं च मूर्तेषु पुद्गलद्रव्येषु यदतीन्द्रियं परमाण्वादि पच्छण्णं कालाणुप्रभृतिद्रव्यरूपेण प्रच्छन्नं व्यवहितमन्तरितं, अलोकाकाशप्रदेशप्रभृति क्षेत्रप्रच्छन्नं, निर्विकारपरमानन्दैकसुखास्वादपरिणतिरूपपरमात्मनो वर्तमानसमयगतपरिणामास्तत्प्रभृतयो ये समस्तद्रव्याणां वर्तमानसमयगतपरिणामास्ते कालप्रच्छन्नाः, तस्यैव परमात्मनः सिद्धरूपशुद्धव्यञ्जनपर्यायः शेषद्रव्याणां च ये यथासंभवं व्यञ्जनपर्यायास्तेष्वन्तर्भूताः प्रतिसमयप्रवर्तमानषप्रकारप्रवृद्धिहानिरूपा अर्थपर्याया भावप्रच्छन्ना भण्यन्ते । सयलं तत्पूर्वोक्तं समस्तं ज्ञेयं द्विधा भवति । कथमितिचेत् । सगं च इदरं किमपि यथासंभवं खद्रव्यगतं इतरत्परद्रव्यगतं च तदुभयं यतः कारणाज्जानाति तेन कारणेन तं णाणं तत्पूर्वोक्तज्ञानं
'रहित है, और घटता बढ़ता नहीं है। इस कारण उत्कृष्ट तथा उपादेय है, और जो
आत्माके मूर्तीक :क्षयोपशमरूप इंद्रियोंके आधीन चैतन्य शक्तिसे उत्पन्न है, वह पराधीन है, विनाशीक है, क्रमरूप प्रवर्तता है, शत्रुसे खंडित है, और घटता बढ़ता है, इस कारण हीन तथा हेय है ॥ ५३ ॥ आगे अतीन्द्रियसुखका कारण अतीन्द्रिय ज्ञान उपादेय है, यह कहते हैं-[प्रेक्षमाणस्य] देखनेवाले पुरुषका [यद्ज्ञानं] जो ज्ञान [अमूर्त ] धर्म, अधर्म, आकाश, काल, जीव इन पॉच अमूर्तीक द्रव्योंको [च] और [मूर्तेषु] मूर्तीक अर्थात् पुद्गलद्रव्योंके पर्यायोंमें [अतीन्द्रियं] इंद्रियोंसे नहीं ग्रहण करने योग्य परमाणुओंको [प्रच्छन्नं] द्रव्य, क्षेत्र, काल, भावसे गुप्त पदार्थों को [ सकलं स्वकं] सब ही स्वज्ञेय [च] और [ इतरं] परज्ञेयोंको