________________
४०
- रायचन्द्रजैनशास्त्रमाला -
[अ० १, गा० ३०
वर्तिनः समस्तज्ञेयाकारानुन्मूल्य इव कवलयन्न चाप्रविष्टो जानाति पश्यति च । एवमस्य विचित्रशक्तियोगिनो ज्ञानिनोऽर्थेष्वप्रवेश इव प्रवेशोऽपि सिद्धिमवतरति ॥ २९ ॥ अथैवं ज्ञानमर्थेषु वर्तत इति संभावयति -
रयणमिह इंदणीलं दुद्धज्झसियं जहा सभासाए । अभिभूय तंपि दुद्धं वहृदि तह णाणमत्थेसु ॥ ३० ॥ रत्नमिहेन्द्रनीलं दुग्धाध्युषितं यथा स्वभासा । अभिभूय तदपि दुग्धं वर्तते तथा ज्ञानमर्थेषु ॥ ३० ॥
यथा किलेन्द्रनीलरत्नं दुग्धमधिवसत्स्वप्रभाभारेण तदभिभूय वर्तमानं दृष्टं तथा संवेदनमप्यात्मनोऽभिन्नत्वात् कर्त्रशेनात्मतामापन्नं करणांशेन ज्ञानतामापन्नेन कारणभूतानामर्थानां कार्यभूतान् समस्तज्ञेयाकारानभिव्याप्य वर्तमानं कार्यकारणत्वेनोपचर्य ज्ञान - र्थानभिभूय वर्तत इत्युच्यमानं न विप्रतिषिध्यते ॥ ३० ॥
इति । ततो ज्ञायते निश्चयेनाप्रवेश इव व्यवहारेण ज्ञेयपदार्थेषु प्रवेशोऽपि घटत इति ॥ २९ ॥ अथ तमेवार्थ दृष्टान्तद्वारेण दृढयति-रयणमिह नमिह जगति । किं नाम । इंदणीलं इन्द्रनीलसंज्ञम् । किं विशिष्टम् । दुद्धज्झसियं दुग्धे निक्षिप्तं जहा यथा सभासाए खकीयप्रभया अभिभूय तिरस्कृत्य । किम् । तं पि दुद्धं तत्पूर्वोक्तं दुग्धमपि वदृदि वर्तते । इति दृष्टान्तो गतः । तह णाणमडेसु तथा ज्ञानमर्थेषु वर्तत इति । तद्यथा— यथेन्द्रनीलरत्नं कर्तृ स्वकीयनीलप्रभया करणभूतया दुग्धं नीलं कृत्वा वर्तते, तथा निश्चयरत्नत्रयात्मकपरमसामायिकसंयमेन यदुत्पन्नं केवलज्ञानं तत् खपरपरिच्छित्तिसामर्थ्येन समस्त ज्ञानान्धकारं तिरस्कृत्य युगपदेव सर्वपदार्येषु परिच्छित्त्याकारेण वर्तते । अयमत्र भावार्थ:- कारणभूतानां सर्वपदार्थानां कार्यभूतापरिच्छित्त्याकारा उपचारेणार्या भण्यन्ते, तेषु च ज्ञानं वर्तत इति भण्यमानेऽपि व्यवहारेण दोषो
1
हैं । इसी प्रकार आत्मा भी ज्ञेय पदार्थो में निश्चयनयसे यद्यपि प्रवेश नहीं करता है, तो भी ज्ञायकशक्ति उसमें कोई ऐसी विचित्र है । इस कारण व्यवहारनयसे उसका ज्ञेयपदार्थों में प्रवेश भी कहा जाता है ।। २९ ।। आगे व्यवहार से आत्मा ज्ञेयपदार्थो में प्रवेश करता है, यह बात दृष्टान्तसे फिर पुष्ट करते हैं - [ इह ] इस लोकमें [ यथा ] जैसे [ दुधाषितं ] दूध में डुबाया हुआ [ इंद्रनीलं रत्नं ] प्रधान नीलमणि [ स्वभासा] अपनी दीप्तिसे [ तत् दुग्धं ] उस दूधको [ अपि ] भी [ अभिभूय ] दूर करके अर्थात् अपनासा नीलवर्णं करके [ वर्तते ] वर्तता है । [तथा ] उसी प्रकार [ अर्थेषु ] ज्ञेयपदार्थो में [ ज्ञानं ] केवलज्ञान प्रवर्तता है । भावार्थ-यदि दूधसे भरे हुए किसी एक वर्तन में प्रधान नीला रत्न डाल दें, तो उस वर्तनका सब दूध नीलवर्ण दिखलाई देगा | क्योंकि उस नीलमणिमें ऐसी एक शक्ति है, कि जिसकी प्रभासे वह सारे दूधको नीला