________________
३८
-- रायचन्द्रजैनशास्त्रमाला- [अ० १, गा० २८- : अथ ज्ञानज्ञेययोः परस्परगमनं प्रतिहन्ति
णाणी णाणसहावो अट्ठा णेयप्पगा हि णाणिस्स। . रूवाणि व चक्खूणं णेवण्णोण्णेसु वदंति ॥ २८ ॥
ज्ञानी ज्ञानस्वभावोऽर्था ज्ञेयात्मका हि ज्ञानिनः ।
रूपाणीव चक्षुषोः नैवान्योन्येषु वर्तन्ते ॥ २८ ॥ ज्ञानी चार्थाश्च स्वलक्षणभूतपृथक्त्वतो न मिथो वृत्तिमासादयन्ति किंतु तेषां ज्ञानज्ञेयस्वभावसंबन्धसाधितमन्योन्यवृत्तिमात्रमस्ति । यथा हि चडूंषि तद्विषयभूतरूपिद्रव्याणि च परस्परप्रवेशमन्तरेणापि ज्ञेयाकारग्रहणसमर्पणप्रवणान्येवमात्माऽर्थाश्चान्योन्यवृत्तिमन्तरेणापि विश्वज्ञेयाकारग्रहणसमर्पणप्रवणाः ॥ २८ ॥ इत्यात्मज्ञानयोरेकत्वं, ज्ञानस्य व्यवहारेण सर्वगतत्वमित्यादिकथनरूपेण द्वितीयस्थले गाथापञ्चकं गतम् । अथ ज्ञानं ज्ञेयसमीपे न गच्छतीति निश्चिनोति-णाणी णाणसहावो ज्ञानी सर्वज्ञः केवलज्ञानस्वभाव एव । अट्ठा णेयप्पगा हि णाणिस्स जगत्रयकालत्रयवर्तिपदार्था ज्ञेयात्मका एव भवन्ति न च ज्ञानात्मकाः । कस्य ज्ञानिनः । रूवाणि व चक्खूणं णेवण्णोण्णेसु वदृति ज्ञानी पदार्थाश्चान्योन्यं परस्परमेकत्वेन वर्तन्ते । कानीव केषां संबन्धित्वेन, रूपाणीव चक्षुषामिति । तथाहि-यथा रूपिद्रव्याणि चक्षुषा सह परस्परं संबन्धाभावेऽपि खाकारसमर्पणे समर्थानि, चयूंषि च तथाकारग्रहणे समर्थानि भवन्ति । तथा त्रैलोक्योदरविवरवर्तिपदार्थाः कालत्रयपर्यायपरिणता ज्ञानेन सह परस्परप्रदेशसंसर्गाभावेऽपि स्वकीयाकारसमर्पणे समर्था भवन्ति । अखण्डैकप्रतिभासमयं केवलज्ञानं तु तदाकारग्रहणे समर्थमिति भावार्थः ॥ २८ ॥ आगे निश्चयसे ज्ञान न तो ज्ञेयमें जाता है, और न ज्ञेय ज्ञानमें आता है, ऐसा कहते हैं[हि ] निश्चयकर [ ज्ञानी ] आत्मा [ज्ञानखभावः ] ज्ञानस्वभाववाला है, तथा । [अर्थाः ] पदार्थ [ ज्ञेयात्मकाः] ज्ञेयस्वरूप हैं। क्योंकि [ज्ञानिनः ] ज्ञानीके । [ ते अर्थाः ] वे पदार्थ [चक्षुषां] नेत्रोंके [रूपाणि इव ] रूपी पदार्थोके समान [अन्योन्येषु] आपसमें अर्थात् सब मिलके एक अवस्थामें [नैव] नहीं [वर्तन्ते] प्रवर्तते हैं। भावार्थ-यद्यपि आत्मा और पदार्थोंका स्वभावसे ही ज्ञेय ज्ञायक संबंध आपसमें है, तो भी ज्ञानी आत्मा ज्ञानस्वरूप है, ज्ञेयस्वरूप नहीं है, और पदार्थ ज्ञेय (जानने योग्य ) स्वरूप हैं, ज्ञानस्वरूप नहीं, अर्थात् अपने स्वरूपको छोड़कर एकरूप नहीं होते । जैसे कि नेत्र रूपी पदार्थो में प्रवेश किये विना ही उन पदार्थोके स्वरूप ग्रहण करनेको समर्थ हैं, और वे रूपी पदार्थ भी नेत्रोंमें प्रवेश किये विना ही अपना स्वरूप नेत्रोके जनानेको समर्थ हैं। इसी प्रकार आत्मा भी न तो उन पदार्थोमें जाता है, और न वे ( पदार्थ ) आत्मामें आते हैं, अर्थात् ज्ञेय ज्ञायक संबंधसे सकल पदार्थोमें प्रवेश किये विना ही आत्मा सबको जानता है, और वे पदार्थ भी आत्मामें प्रवेश नहीं करके अपने स्वरूपको जनाते हैं। इसी कारण आत्माको व्यवहारसे सर्वगत कहते हैं ॥२८॥