________________
भवभावना प्रकरण
जूहवइत्ते पजलियवणदावे निरखलंघचरणस्स । मेहकुमारस्स व दुहमणंतसो तुह समुप्पन्नं ॥२२८॥ गज
"जन्मनि इहाटव्यां वृहत्करिणः किलैवं ध्रियन्ते-वारिनामिका महती गर्ता खन्यते, इयं चासारकाष्ठस्तृण- जीवेन रेण्वादिभिश्चाच्छाद्यते, तस्याश्च अपरभागे करेणुका ध्रियते, तत्स्पर्शे च लुब्धो वनकरी धावति, स च ।
परिरागान्धो गर्तामपश्यंस्तस्यामधो निपतति, तन्मध्ये च बुभुक्षितं तमनेकदिनानि धरन्ति, ततोऽतिसन्नम- ।' भ
भुक्तानां किंचित्करं सन्तं ततः समाकृष्य राजसमीपं नयन्ति, तत्र च शुष्कवृक्षे चर्ममयमहानाडकनियंत्रितो ..
दुःखानां दीनः प्रतिदिनं क्षीयते ॥ 'दंतीति गजमेवाधिकृत्याऽत्मजीवं कश्चिदनुशास्ति-शितं-तीक्ष्णमंकुशं, शेषं
वर्णनम् सुगमं ॥ तथा-'सोऊण' सुगमा ॥ 'भिसिणी सुगमा ॥ अपरं च-'पडिकुंजर' प्रतिपक्षहस्ती तस्य सम्बन्धिनौ कठिनो चिहुट्टी-शरीरैकदेशसन्निमग्नौ यो दन्तौ तजनितक्षतेभ्यो गलितः पूयरुधिरौघो यस्य स तथा, अत एव तेषु क्षतेषु परिभ्रमत्कृमिजालो गतोऽसि तत्रैव-गजजन्मनि पञ्चत्वंमरणभावमिति ॥ अथ गजमेवाधिकृत्योदाहरणगर्भामात्मानुशास्तिमाह-यथा मेघकुमारस्य गजयूथपतित्वे वनदवे प्रज्वलिते निप्कचवरस्थण्डिलस्थस्य निरालम्बोक्षिप्तैकचरणस्य दुःखमुत्पन्नं तथा तवापि जीव ! तथाविधं दुःखमनन्तशः समुत्पन्नं, अत एव तदवगम्य तथा यतस्व यथा पुनरप्येवंविधदुःख