________________
भावना प्रकरणे
तिर्यग गतौ स्थितानां जीवानां स्वरूपम्
@ सव्वा य कंदजाई सूरणकंदो य बजकंदो य । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥
इत्यादयो द्रष्टव्यास्तथाचक्कागं भजमाणस्स, गंठी चुन्नघणो भवे । पुढविसरिसेण भेएण, अणंतजीवं वियाणाहि ॥१॥ गूढसिरसंधिपव्वं, समभंगमहीरयं च छिन्नरुहं । साहारणं सरीरं तविवरीयं च पत्तेयं ॥२॥
इत्याद्यागमपठितलक्षणसूचिताश्च मन्तव्याः। तथा तृणीषधिलतागुल्मवल्लीद्राक्षाखजू रिनालिकेरीनिम्बाम्रादयः तन्मूलकन्दस्कन्धत्वशाखाप्रवालपत्रपुष्पफलबीजादयश्च, प्रत्येकशरीरिणो बादरवनस्पतयः, विकलेन्द्रियास्तु द्वित्रिचतुरिन्द्रियभेदात् त्रिविधाः, तत्र कृमिशङ्खजलूकाऽलसमातृवाहकादयो द्वीन्द्रियाः, कुन्थुपिपीलिकापिशुकयूकोद्देहिकामत्कोटकमत्कुणादयस्त्रीन्द्रिया, वृश्चिकभ्रमरपतंगमशक
मक्षिकादयश्चतुरिन्द्रियाः, पंचेन्द्रिया द्विविधाः-संमूळुजा गर्भजाश्च, तत्राद्याः प्रथमवृष्टिजलसंमूच्छित* ददुरादयो वाहिकादयश्च मन्तव्याः, गर्भजास्तु गजगोमहिष्युष्टतुरंगादयः एतभेदभिन्नास्तस्यां
तिर्यग्गतौ जीवा भवन्ति, तेषां च सुखदुःखे समधिकृत्य स्वरूपमेवं-वक्ष्यमाणरूपं परमार्थतो-निश्चयतो विभावयेत् परिभावयदिति ॥
किं पुनस्तत् स्वरूपमित्याह