________________
नाम्भमा मेलनमकरोत् । ततस्तामपरिस्पन्दामवलोक्य लोकस्य शंका किमियं मूच्छिता उत मृतेत्येवंरूपा आरेका समजायन । ततो यदा मोह उक्तरूपेऽर्थे निर्णयाभावरूपो न निवर्तते तदा भगवतः पृच्छा कृता, यथा-भगवन्नसी वृद्धा |कि मूच्छिता उत मृतेति । ततः कथना च कृता भगवता, यथा-मृताऽसौ देवत्वं चावाप्ता । ततः पर्याप्तिभावमुपग-15 तन प्रयुक्तावधिना पूर्वभवानुभूतमवगम्य जिनवन्दनाथं तेनागमने कृते 'एप देवः सा स्त्री' इति पुनरपि भगवता निवेदिते विस्मयो लोकानां ममभूत् , यथा-अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तेयमिति । ततो भगवता गंभीरा
यथा स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविपयो महाफलो भवति ॥ १०२१॥ यत एकोयुदरुविन्दुलावयवरूपो, लिंगव्यत्ययः प्राकृतत्वात् , यथा प्रक्षिप्तो महासमुद्रे स्वयंभूरमणादौ जलराशौ जायते । अक्षत जाश्रयगोपाभावादक्षयः, एवं पूजापि, हुः पूर्ववत्, वीतरागेष्वर्हत्सु । इति ॥ १०२२ ॥ तथा उत्तमगुणेषु प्रधानगुणेषु जिनेषु, वीतरागत्वादिगु वा जिनगुणेषु बहुमानपक्षपात उत्तमगुणवहुमानः स पूजया वीतरागाणां भवतीति नम्वन्धः, पूजास्येति गम्यते । तथा पदमवस्थानमुत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनग-1
धरनाकिनरनायकादीनां मध्ये; तथा, उत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मवंधरूपस्याशुभकर्मक्षयरपरय च कालान्तरे क्रमेण यथाख्यातचारित्ररूपस्य च निष्पत्तिर्भवति । अथवा उत्तमधर्मप्रसिद्धिर्जिनशासनप्रकाशः पूजयाऽभ्यर्गनेन वीतरागाणां जिनेन्द्राणाम् ॥ १०२३ ॥ प्रस्तुतमेवाह-एतेन वीजेन पूजाप्रणिधानलक्षणेन दुःखानि | दारियादीन्यप्राप्य भवगहने संसारारण्येऽत्यन्तोदारभोगः-अतिप्रधानशब्दादिविपयसुखः सन् सिद्धोऽसावष्टमे मनु
ऊऊऊम्म रमरकर
M
4-