________________
उमति भोगोऽपि त्यादिवस्तुविषयोऽन्धलकभोगतुल्यो यादृशोऽन्धपुरुषस्य प्रासादशय्यासनवनितादिभोगोऽनुपलब्धरूपतत्त्वल न परमार्थतो भोगतां विभर्त्ति मिथ्यादृशोऽपि तथा प्रस्तुतभोग इति । एतदेव द्रढयन्नाह - पूर्वाचार्या जिनभद्रगणिक्षमाश्रमणपादास्तथा च तथैव यथैतद्वस्तु सिध्यति तथाऽऽहुरुक्तवन्तः ॥ ४४३ ॥
उक्तमेव दर्शयति
सदसदविसेसणाओ भव हेउज हिच्छिओवलंभाओ । णाणफलाभावाओ मिच्छद्दिट्ठिस्स अन्नाणं ॥ ४४४
सदसतोरविशेषणाद् मिथ्यादृष्टेरज्ञानमित्युत्तरेण योगः । मिथ्यादृष्टिहिं यदस्ति तत् सर्वथाऽस्त्येवेति निर्विशेषणं वदति । एवं नास्तीत्यपि वाच्यम् । न चैवं वस्तुस्वरूपमस्ति, सर्वभावानां स्वरूपेण सत्त्वात् । असत्त्वमपि विवक्षित पर्यायापेक्षयैव, न पुनः सर्वानपि पर्यायानपेक्ष्य, पर्यायविशेषापेक्षयाऽसत्त्वविवक्षाकालेऽपि घटादेः सत्त्वाभ्युपगमात् तथा, | 'भव हे उ'ति भावप्रधानत्वेन निर्देशस्य, भवहेतुत्वात् संसारकारणत्वात्, मिथ्यात्वादीनां कर्मवन्धहेतूनां विपरीतज्ञानरूपत्लेन प्रवृत्तेः । तथा, यदृच्छया स्वेच्छारूपयोपलम्भात् सर्वभावानामववोधात् न पुनः सम्यग्दृष्टेरिव सर्वविवचनपारतंत्र्यात् । तथा, ज्ञानफलाभावात् । ज्ञानस्य हि फलं विरतिः । सा च ज्ञानाऽभ्युपगमयतनासु सतीषु सम्पद्यते । मिथ्यादेस्तु विपर्यस्तवोधोपहतत्वेन ज्ञानस्यैव तावदसम्भवात् कुतोऽभ्युपगमयतनासम्भवः ? न च स्वकार्यमकुर्वत् कारणं कारणतया विपश्चितो निश्चिन्वन्ति । पठन्ति चात्र- "यदेवार्थक्रियाकारि तदेव परमार्थसत् । " इति । ततस्ताशस्य ज्ञानफलस्याभावाद् मिथ्यादृष्टेरुदीर्णमिथ्यात्व मोहस्य ज्ञानमपि शास्त्राभ्यासादिजन्यमज्ञानं वर्त्तते ॥ ४४४ ॥