________________
श्रीउपदेशपदे
। २२५ ॥
भण्यते उत्तरमत्र यथौषधं त्रिफलादिः, खलुरवधारणे, यलेनादरेण सदा सर्वावस्थासु विधानतः तदुचितान्नपानादिसेवनरूपा युक्तं हीनाधिकमात्रापरिहारेण समुचितं तथेति विशेषणसमुच्चये, ततो यलेन सदा विधानतो युक्तं च समुपजीव्यमानं सद् रोगिणां व्यवच्छिनत्ति व्याधिं कण्डूप्रभृतिकम्, न नैवान्यथोक्तक्रमव्यतिक्रमे । एवमौषधवद् visपि शुद्धज्ञायोगोऽशुभानुबन्धव्याधिमिति ॥ ३८९ ॥
तो अप्पमाओ भणिओ सव्वत्थ भयवया एवं । इहरा ण सम्मजोगो तस्साहय सोवि होत्ति ॥ ३९० ॥
इतः शुद्धाज्ञायोगस्यौषधज्ञातेनाशुभानुबन्धव्यवच्छेदकत्वादेव हेतोरप्रमाद् उपयुक्तभावरूपो भणितः सर्वत्र साधुश्रावकप्रयोगे चैत्यवन्दनादावनुष्ठाने भगवता तीर्थकृता एवम शुभानुबन्धव्यवच्छेदकत्वेन । इतरथाऽशुभानुबन्धव्यवच्छेदाभावे न नैव सम्यग् योगः शुद्धाज्ञालाभलक्षणोऽप्रमाद एव न भवतीति भावः । नहि कारणं स्वकार्यमनुत्पादयत् सत् कारणभावं लभते, इत्यशुभानुबन्धेऽव्यवच्छिद्यमाने तत्साधकत्वेन शुद्ध ज्ञानलक्षणोऽप्रमादो निरूप्यमाणः स्वं स्वभावं न लब्धुमलम् । एवं तर्हि बहवः शुद्धाज्ञायोगवन्तोऽशुभानुबन्धाव्यवच्छेदेऽपि व्यावर्ण्यमाना उपलभ्यन्ते, तत्कथं न दोष ? इत्याह-- ' तस्साहय'त्ति विभक्तिलोपात् तत्साधकः पारंपर्येणाशुभानुबन्धव्यवच्छेद हेतु शुद्धाज्ञायोगसाधकः सन् सोऽप्यानन्तर्येणाशुभानुबन्धाव्यवच्छेदहेतुराज्ञायोगो लब्धोऽभिमत इति । यदा हि अद्याप्यतिनिबिडोऽशुभानुबन्धोऽतीव्रश्चाज्ञायोगः, तदाऽसौ तं सर्वथा व्यवच्छेद्यमपारयन्नपि सर्वथा तदुच्छेदकतीत्राज्ञायोगकारणभावापन्नतया सुन्दर एवेति ॥ ३९० अत्र हेतुमाह
औषधद्दटान्तेन
समाधानादि.
॥ २२५ ॥