________________
___ श्रीमन्मुक्तिकमलजैनमोहनमालापुष्पम्परहिताधाननिविडनिवद्धबुद्धिसुगृहीतनामधेयभगवत्-श्रीहरिभद्रसूरिविरचित
श्रीमन्मुनिचन्द्रसूरिविनिर्मितया टीकया विभूषित श्रीउपदेशपदमहाग्रन्थः।
200023300
___नमः श्रीसर्वज्ञाय। यस्योपदेशपदसंपदमापदंतसंपादिका सपदि संघटितश्रियं च ।
आसाद्य सन्ति भविनः कृतिनः प्रयत्नात् तं वीरमीरितरजस्तमसं प्रणम्य ॥१॥ तत्तामृतोदधीनामानन्दितसकलविवुधहृदयानाम् । उपदेशपदानामहमुपक्रमे विवरणं किंचित् ॥२॥ पूर्वर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः कालवलेन तां स्फुटतया वोढुं यतो न क्षमः। तत्तस्योपकृति विधातुमनघां स्वस्यापि तत्त्वानुगां प्रीतिं संतनितुं स्ववोधवचनो यत्नोऽयमास्थीयते ॥३॥