________________
श्रीउपदेशपदे
॥ ९३ ॥
4345
दलभूतानां यत् प्रमाणं तस्यापि ज्ञानं संपद्यत एव । अथवेति पक्षान्तरे इह रथादौ निर्मापणीये यदक्षत्वं निर्माणशीघ्रत्वमभ्यासाद्भवति 'एमेव'त्ति एवमेव प्रागुक्तहैरण्यकादिवत् पूतिकेत्ति - कान्दविके माषादिदले माषमुद्गगोधूमचूर्णादौ पक्तुमिष्टभोजनयोग्य प्रमाणज्ञानं दक्षत्वं वा मुणितव्यं प्रस्तुतबुद्धिप्रभावादिति ॥ २६ ॥ घडकारपुढविमाणं तह सुक्कुत्तारणं च सयराहं । चित्तकरे एवं चिय वण्णातो विद्धलिहणं च ॥२७॥
घटकारः कुम्भकारः पृथ्वीमानं घटादिदलभूतमृत्पिण्डप्रमाणं जानाति यथा इयता मृत्पिण्डेन इयं घटादिनिष्पत्तिः निपत्स्यते । तथेति समुच्चये 'सक्कुत्तारणं' ति शुष्कस्य मनाक् शोषमुपागतस्य भाण्डस्य घटादेरुत्तारणं चक्राद्दवरकेण पृथक्करणमित्येतत् 'सयराहं'ति शीघ्रं करोति 'चित्तकरे एवं चिय'त्ति चित्रकरोऽप्येवमेव वर्णाद् वर्णकाद्रक्तपीतादेः सकाशात् प्रमाणं लेखनीयचित्रस्य बुद्ध्यते । विद्धस्य जीवत इव गजतुरङ्गमादेर्जीवस्य लेखनं करोति, प्रक्रान्तबुद्धिमाहात्म्यात् । चः समुच्चये ॥ १२७ ॥
॥ समाप्तानि कर्मजाया मतेर्ज्ञातानि ॥
नमः श्रुतदेवतायै ॥ अथ पारिणामिकीज्ञातानि भण्यन्तेः
परिणामिया य अभए लोहग्गासिवणलागिरिवरेसु । पज्जोया जियवज्जणजायणया मोइओ अप्पा ॥ १२८॥ रायहिं नाम पुरं तत्थासि विपक्खरायमय मलणो । खाइगसम्मद्दिट्ठी सेणियराया जयपसिद्धो ॥ १ ॥ चरविबुद्धि
कर्मजा ० ज्ञातानि,
॥ ९३ ॥