________________
CICICALCA
ततो राजा मंदेवापन्नचेतसा जननीपृच्छा कृता यथा किमेवं मे पञ्च पितरः ? तयापि एवमिति यथा रोहकः प्राह कथना || च तथैव निवेदनं कृतं पुनः ॥ ७२ ॥ १३ ॥
तानेव महेतुकान् सा दर्शयति;राया रइवीएणं धणओ उउण्हायपुज्जफासेणं । चंडालरयगदसण विच्चुगमरहस्सभक्खणया ॥७३॥ __ 'राया' इत्यादि राजा ताबद्रतिवीजेन सुरतकाले वीजनिक्षेपरूपेण १, धनदः कुवेरः 'उउण्हायपुज्जफासेणं ति ऋतुस्ना|तया चतुर्थदिवसे तस्य पूजायां कृतायां मनोहरतदाकाराक्षिप्तचित्तया यः स्पर्शस्तस्यैव सर्वाङ्गमालिङ्गनं तेन २, 'चंडालरयगदंसणत्ति चण्डालरजकयोः ऋतुस्नाताया एव तथाविधप्रघट्टकवशादर्शनमवलोकनं मनासंयोगाभिलापश्च मे संपन्न इति तावपि पितरी ३-४, 'विचगमरहस्सभक्खणया' इति अत्र मकारोऽलाक्षणिकः ततो वृश्चिको रहस्यभक्षणेन रह।
एकान्तस्तत्र भवं रहस्यं तच्च तद्भक्षणं च तेन जनकः संपन्नः मम हि पत्र! त्वय्युदरगते वृश्चिकभक्षणदोहदः समजनि । कामंपादितश्चासी रहसि कणिकामयस्य तस्य भक्षणेनेत्यसावपि मनाग् जनकत्वमापन्नः ॥ ७३ ॥
कारणपुच्छा, रज्जं णाएणं दाणरोसदंडेहिं । कविच्छिवणा य तहा रायादीणं सुतोसित्ति ॥ ७ ॥ । एवं जनकसंख्यासंवादे संपन्नविस्मयेन राज्ञा कारणगोचरा पृच्छा कृता, यथा केन कारणेन त्वयाऽयमर्थोऽत्यन्तनिपुणधियामपि बुद्धेरगोचरो ज्ञात इति। रोहकः-राज्यं प्रतीतरूपमेव न्यायेन नीत्या सामादिप्रयोगरूपया यत् परि
ACANCE
उ.प.म.१०