________________
364 From Padmamandira's Commentary कुटदृष्टान्तमाकर्ण्य स्थित्वा पृथगुपाश्रये ।
आयातो वसतावभ्युत्थिनः सर्वैर्महर्षिभिः ॥ १७ ॥ तिष्ठात्रैवेति तैरतः स स्थित्वोपाश्रये पृथक् । देषाड्युद्ग्राहयत्यवान तु शक्नोति तान्मुनीन् ॥ १७१ ॥ अथ पौरुषमाचार्याः कुर्वन्ति न पटणोत्यसौ । ब्रूते भवन्तो निष्यावकुटतल्या महर्द्धयः ॥ १७२ ॥ शिष्यो ऽनुभाषते तेषां विन्ध्यस्तत्र श्टणोत्यसौ । तत्र कर्मप्रवादाख्ये पूर्व कर्मोच्यते ऽष्टमे ॥ १७३ ॥ यथेवं बध्यते कर्म कथं बन्धो ऽस्य चात्मनः । प्ररूपयन्विचारे ऽस्मिन्नन्यथाभूत्म निहवः ॥ १७४ ॥ तविस्तरो ऽथ विज्ञेयो विज्ञैरावश्यकागमात् । धुन्धो न विन्ध्यस्तद्दाक्यादेष] देषाबहिष्कृतः ॥ १७५ ॥ सूरिलिकापुष्यमित्रः प्राप्तः क्रमाद्दिवम् । ततान तत्पदोद्योतं ततो विन्ध्यो ऽप्यवन्ध्यधौः ॥ १७६ ॥
इत्यार्यरक्षितगुरोरनुवास्य शिष्यनिष्पावकुम्भसदृशस्य च विन्ध्यसाधोः । संबन्ध [ वर्य ] मभिधाय यमर्थसारं संप्राप्तवान्भवतु तेन सुखौ जनो ऽयम् ॥ १७७ ॥
End of the Appendices
175d MS. om. देष। 177cts om. चर्य ।