________________
358
From Padmamandıra's Commentary
on Reimandalastotra v 210-212 इतश्चास्मिन्गणे ऽभूवन्पुष्यमिवर्षयस्त्रयः । एको दुर्बलिकापुथ्यो धृतवस्त्राहयौ परौ ॥ १.४ ॥ यस्तु दुर्बलिकापुथ्यस्तस्य विस्मरति श्रुतम् । अगुण्यमानं गुणयन्दुर्बलस्तेन सो ऽधिकम् ॥ १०५ ॥ यो घृतपुष्यमित्रो ऽसौ पूरयत्यखिले गणे । घृतं द्रव्यक्षेत्रकालभावास्वलितलब्धिमान् ॥ १०६ ॥ तत्र द्रव्यं घृतं क्षेत्रमवन्तो कालतः पुनः । ज्येष्ठापाढेषु मासेषु भावाट्रोरजिप्रिया ॥ १.७ ॥ गुरु तस्या धनेनाल्पमल्यं मौलयता सता । षभिर्याचनया मासैः कृच्छ्रादुत्पादितं घृतम् ॥ १०८ ॥ वरमेष्यति चैतस्याः प्रसूतायाः प्रयोजने । अत्रान्तरे घृतपुष्यमित्रस्तां प्रार्थयेद् घृतम् ॥ १०८ ॥ ग्टहान्तरं परं नास्ति इष्टास्मै तद्ददाति सा । स यान्पृच्छति सर्वाँन कियतार्थों घृतेन वः ॥ ११ ॥ यस्य यावत्प्रमाणं तत्तावत्तस्मै ददात्यसौ । वस्त्रलब्धिर्वस्त्रपुष्यमित्रे ऽप्येवमनाहता ॥ १११ ॥ द्रव्यं तत्राम्बरं क्षेत्रमवन्तौ मथुराथवा । कालः शौतर्तवर्षा वा भावतो विधवाङ्गना ॥ ११२ ॥ कृच्छ्रेण परिधानार्थ तयैका पोतिकार्जिता । प्रातापारयिष्यामि सो ऽथैत्य याचते मुनिः ॥ ११३ ॥ तस्मै ददाति तां तुष्टा सैवं सर्वगणस्य सः । तपसोर्जितया लब्ध्या वासः पूरयतौमितम् ॥ ११४ ॥
105. MS श्रुता।
-