________________
२४
પેન્દ્રસ્તુતિવનુર્વિશતિમ तस्थमित्रणम्, अथवा विमला निर्मला विश्वा-पृथिवी यस्माद् असौ विमल विश्वः, पारस्य-कन्दपस्य क्षति:
यो यस्मादसौ मारक्षतिः, विमलविश्वश्चासौ मरिक्षातश्चेति कर्मधारयगर्भमामन्त्रणं व्याख्येयम् , स्वतन्त्रं वेदमामयम्-'हे विमल ' मलरहित ', हे 'विश्वमारक्षते ।' विश्वस्य-सर्वस्य मारस्य-भरणहेतोः क्षति:
क्षयो यस्मात् तस्यामत्रणम् इति व्याख्येयम् । हे विमल! 'ते' तुभ्यं नम:, अस्तु इति शेषः । ते किम्भूताय ? 5 'असमदाय' असमः-निरुपमो दमः-इन्द्रियजयो यस्य स तथा तस्मै । पुन: किन्भूताय ? 'मोहतरणाय' ___ मोहस्य-अष्टाविंशति-प्रकृत्यात्मककर्मणः सकल मूलभूतस्य तरणं यस्य यस्माद् वा स तथा तस्मै । किं कुर्वते ? आ-समन्ताद् रक्षते-पालयते, किम् १ 'विश्व' जगत् ॥ [१]
'महाय तरसा हिताजगतिबोधिदानामहो !,
दया भवतुदा तताऽसकलहाऽसमानाऽऽभया। 10
महायतरसाहिता जगति बोधिदाना महो
दया भवतु दान्तताऽसकलहासमानाऽभया ॥२॥ महायति ।। अजेषु-सिद्धेषु मध्ये गतिः-गमनं येषां तेऽजगतयः, ते च ते बोधिदा:-तीर्थकतोउजागतिवाधिदाः तेषाम् , 'अहो' इत्याश्चये, 'दया' अनुपकृतोपचिकीरूिपा 'वः' युष्माकं महाय' उत्सवाय भवतु, किन ? तरसा' वेगेन । किन्भूता दया ? 'हिता' हितकारिणी । अजगतियोधिदानां किन्भूतानाम् ? 15 भवतुदी' भवं संसार तुदन्ति-क्षपयन्तीति भवतुदस्तेषाम् । [ पुनः ] दया किम् ? 'तता' विस्तीर्णा ।
पुनः किम् ? 'असकलहा' सह कलहन वर्तते या सा सकलहा, न सकलहा असलहा । पुनः किम् ? 'असमाना' निरुपमा, क्या ? 'आमया' शोमया कृत्वा । पुनः किम् ? 'महायतरसाहिता' महान् गुरुः
आयत:-विस्तीर्णो यो रसः-शान्ताख्यस्तेन आहिता-स्थापिता, क ? 'जगति' विश्वे । पुनः किम् ? 'अधिदाना' अधि-अधिकं दानं यस्याः सा तथा । पुनः किम्० १ 'महोदया' महान् उदयो यस्याः सा 20 तथा । पुनः किम् ? 'दान्तताऽसकलहासमाना' न स्तः सकलौ सम्पूर्णी हासमानौ-स्मितस्मयो यस्याः
साऽसकलहासमाना, दान्ततया खसमानाधिकरणेन दमेन हेतुभूतेन असकलहासमाना दान्तताऽसकलहासमाना । पुनः किम् ? 'अभया' नास्ति भयं यस्याः सकाशात् सा ॥ [२]
क्रियादरमऽनन्तरागततया चितं वैभवं, ___ मतं समुदितं सदा शमवताऽभवेनोदितम् । क्रियादमानरागततयाचितं वैभव,
__ मतं समुदितं सदाशमवता भवेऽनोदितम् ॥ ३ ॥ क्रियादिति ।। 'वैभवं' विभुसम्बन्धि आहेतमित्यर्थः 'मतं' शासनं मतम्' अभीष्टं 'वैभव' विभवसमूहं प्रभुत्वं वा 'अरम्' अत्यर्थं क्रियात् । किन्भूतम् ? 'सदा नित्यम् 'अनन्तराऽऽततया' अविच्छिन्नशिष्यप्रशिष्यादिपरम्पराप्राप्ततया 'चितं' पुष्टम् , सुसम्प्रदायोपनिवद्धार्थमित्यर्थः । पुनः किम् ? 'समुदित' 30 सह मुदा हर्षेण वति इति समुत् तेन इतं-भातम् । पुनः किम्० १ . उदितम्' उक्तम् , केन ? शमवता'
१ सेनानीभूतस्य तरण-निर्जरहेतुमिरौपक्रमिकवेदन यस की० ॥ २ कयम् ? की० ॥ ३ दायेन नि सा० ॥
25