SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ द्वितीयविशिका Ovvv ~ SS "गमा" इत्यनुनासिकलुकि च गतिरिति । सा चानेकप्रकारास्पृशद्गत्यस्पृशद्गतिवक्रगत्यादिभेदेन । न च वाच्यं कथमचेतनत्वा दणूना गतिः, चेप्टारहितत्वात्तेषामिति । नहि क्रिया चेतनावत्त्वेन व्याप्तेति नियम, उद्गच्छद्भानुप्रभापिञ्जरितजालकादी स्पष्ट गतिमत्त्वेक्षणात्पुद्गलानाम् । न च नियता गतिस्तेषा तत्र येन वाय्वादिनियता सा भवेत्, अभावे चाणूना गत्यादेः कथं घटपटशकटादे पुरातनीभावेन जर्जरीभावः सम्पद्येत, सन्ध्याभ्रादयो वोत्पद्यरन् विलीयेरैश्च । न चैतत्पुद्गलानां गत्याद्यभावे युक्तम् । कथ च प्रतिवस्तु परमाण्वपचय प्रत्यक्षसिद्धोऽभ्युपगतो वा युज्यते । न द्वयणुकादित्वापत्ति. परमाणुना गत्यभावे, प्रत्यक्ष च विलोक्यते शक्रधनुरादीना परिणतिवियुक्तता चेति स्वीकार्येव पुदगलाना गतिमत्ता, अन्यथा सूर्याचन्द्रमसोरुद्योतोऽपि नैवावाप्नुयाद् भूलोकम् । यदृष्टम्प्यपलप्यते, तन्न व्यवहारितामनुपतति, पारमर्ष च- "जण्ण परमाणुपोग्गला लोगस्स पुरथिमिल्लाओ चरिमताओ पच्चस्थिमिल्ल चरमत एगसमएण गच्छइ, पच्चत्यिमिल्लाओ वा चरिमताओ पुरथिमिल्ल वा चरमंत एगसमएण गच्छति, दाहिपिल्लाओ चरमताओ वा उत्तरिल्ल चरमतं एगसमएण गच्छति उत्तरिल्लाओ वा चरमताओ वा दाहिणिल्ल चरमत एगसमएण गच्छइ" इत्यादि । न च कथमेतत्सम्भवि, गतिमत्त्वेऽपि पुद्गलानामेतादृक्शीघ्रगत्ययोगादिति शङ्कनीयम् । यतो विद्युत्प्रकागो यथा पुद्गलमय एवास्तुणाति विश्व विश्व स्वरोचिषा क्षणेन । यद्वा-विद्युद्यन्त्रप्रयुक्तो ध्वनिः खटत्कारेण सममेव शतावधिकान् क्रोगानतिक्रम्य पुनस्तत्रैव तदैवापक्रामन् विलोक्यते । एतच्च स्थूलदृष्ट्या स्थूलस्कन्धाना यदि प्रेक्ष्यते, का वार्ता तर्हि परमाणुतामृता, -परमाणूना, गुरुत्वलेशस्याप्यभावस्नत्र यत.। तन यथार्थप्रतिपादक
SR No.010690
Book TitleLoka Vinshika
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherManikyasagar Suri
Publication Year1965
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy