SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ सू० ६७३] जय-पराजयव्यवस्था ६६३ 'मयोपन्यस्ताप्येषा जातिस्त्वया न ज्ञाता जात्यन्तरं चोद्भावितम् इति । अत्र च प्रागुक्ताशेषदोपानुपङ्गः । तदेवमुत्तराऽप्रतिपत्त्युद्भावनत्रयेपि जातिवादिनः पराजयस्यैकान्तिकत्वात् 'ऐकान्तिकपराजयाद्वरं सन्देहः' इति जानन्नपि जात्यादिकं प्रयुङ्क्ते इत्येतद्वचो नैयायिकस्यानैयायिकतामाविर्भावयेत् । ततः स्वपक्षसिद्ध्यैव ५ जयस्तदसिध्या तु पराजयः, न तु सिथ्योत्तरलक्षणजातिशतैरपीति। नापि निग्रहस्थानः । तेषां हि "विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्" [ न्यायसू० १२।१९ ] इति सामान्यलक्षणम् । विपरीता कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः। अप्रतिपत्तिस्त्वा-१० रम्भविषयेऽनारम्भः, पक्षमभ्युपगम्य तस्याऽस्थापना, परेण स्थापितस्य वाऽप्रतिषेधः, प्रतिषिद्धस्य चानुद्धार इति । प्रतिज्ञाहान्यादिव्यक्तिगतं तु विशेषलक्षणम् । तत्र प्रतिज्ञाहानेस्तावल्लक्षणम्-"प्रतिदृष्टान्तधर्म्य(मा)नुज्ञा खदृष्टान्ते प्रतिज्ञाहानिः" [न्यायसू०५।२।२] "साध्यधर्मप्रत्यनीकेन १५ धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञोहानिः । यथा 'अनित्यः शब्द ऐन्द्रियिकत्वाद् घटवत्' इत्युक्ते परः प्रत्यवतिष्ठते-सामान्यमैन्द्रियिकं नित्यं दृष्टम् , कस्मान्न तथा शब्दोपि ? इत्येवं स्वप्रयुक्तस्य हेतोराभासतामवस्यन्नपि कथावसानमकृत्वा प्रतिज्ञात्यागं करोति-यथै-२० न्द्रियिकं सामान्यं नित्यं कामं घटोपि नित्योस्त्विति । न (स) खल्वयं ससाधनस्य दृष्टान्तस्य नित्यत्वं प्रेसजनिगमनान्तमेव पक्षं जहाति । पक्षं च परित्यजन्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्य" [ न्यायमा० ५।२।२] । इति भाष्यकारमतमसङ्गतमेव; साक्षाद्दुष्टान्तहानिरूपत्वात्त-२५ स्यास्तत्रैव साध्यधर्मपरित्यागात् । परम्परया तु हेतूपनयनिगम १ प्रागुक्तः उत्तराप्रतिपत्तिलक्षणादिः। २ पराजयो न भवतीति। ३ तत्त्वप्रतिपत्तेरभावो विप्रतिपत्तिः। ४ कथम् ? तथा हि । ५ वादिपक्षस्य । ६ अपरिहारः। ७ उक्ते हेतौ दूषणोद्भावने सति पक्षाभ्युपगमः प्रतिशा। ८ अभ्युपगमः। ९ धर्मधर्मिसमुदायः प्रतिज्ञा तस्या हानिः । १० प्रतिवादिना पर्यनुयुक्तो वादी। ११ परकीयोदाहरणधर्मम् । १२ वादिनः। १३ इन्द्रियग्राह्यत्वात् । १४ वादिना। १५ प्रतिवादी । १६ जानन् । १७ कथा वादः। १८ साधनवादी। १९ वादी। २० अभ्युपगच्छन् । २१ घटादिदृष्टान्तः । २२ प्रतिशाहानेः। २३ शब्दानित्यत्वं साध्यधर्मः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy