SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ सू० ६१७३] जय-पराजयव्यवस्था ६५१ नाप्युश्चारच्छलम् । तस्य हि लक्षणम्-"धर्मविकल्पनिदेशेऽर्थलद्भावप्रतिषेध उपचारच्छलम्" [न्यायसू० २०१४] इति । धर्मस्य हि क्रोशनादेर्विकल्पोऽध्यारोपत्तत्य निर्देशे 'मञ्चाः क्रोशन्ति गायन्ति' इत्यादौ तात्थ्यात्तच्छब्दोपचारेणासद्धृतार्थस्य तु परिकल्पनं कृत्वा परेण प्रतिषेधो विधीयते-'न मञ्चाक्रोशन्ति किन्तु ५ मञ्चस्थाः पुरुषाः कोशन्ति' इति । तच परस्य पराजयाय जायते यथावक्तुरभिप्रायमप्रतियात् । शब्द्धयोगो हि लोके प्रधानभावेन गुणभावेन च प्रसिद्ध ततो यदि बहुगौगोथोभिप्रेतः, तदा तत्यानुज्ञान प्रतिषेधो वा विधातव्यः। अथ प्रधानभूतः तदा तत्य ताविति । यदा तु वक्ता गौणमर्थमभिप्रेति प्रधानभूतं परिकल्प्य १० परः प्रतिषेधति तदा तेन स्वमनीषा प्रतिषिद्धा स्थान परस्याभिप्रीय इति नौस्यायमुपालम्भः स्यात् , तदनुपालम्भाचासौ परजीयते; इत्यप्यविचारितरमणीयम्; यतो यद्येतावतैवासौ निगृह्येत तर्हि यौगोपि सकलशून्यवादिनं प्रति मुख्यरूपतया प्रमाणादिप्रतिषेधं कुर्वन्निगृह्यत, संव्यवहारेण प्रमाणादेस्तेनाभ्युपगमात् । १५ ततः स्वपक्षसिदैव परस्य पराजयो न पुनश्छलमात्रेण । नापि जातिमात्रेण । तथाहि-तस्याः सामान्यलक्षणम्-"साधयंवैधाभ्यां प्रत्यवेस्थानं जातिः” [ न्यायसू० १२।१८] इति । तस्याश्चानेकत्वं साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य मेदात् । तथा च न्यायभाष्यकार:-"साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य २० विकल्पाँजातिबहुत्वमिति" [न्यायभा० ५।११] । ताश्च खल्विमा जातयः स्थापनाहेतौ प्रत्युक्ते चतुर्विंशतिः प्रतिषेधहेतवः"साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पलाध्यप्राप्त्यऽप्राप्ति. प्रसङ्गप्रतिदृष्टान्तानुपपत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसैमाः" [ न्यायसू० ५।११] २५ इति सूत्रकारवचनात् । १ मुख्यार्थप्रतिषेधः । २ उपचारः। ३ प्रयोगे कृते । ४ प्रतिवादिना। ५ वक्रsभिप्रायानतिक्रमेण प्रतिषेधः स्यादिति भावः। ६ अनुज्ञानप्रतिषेधौ विधातव्यो, इयं व्यवस्था भवतु। ७ सा व्यवस्थात्रापि भविष्यतीत्युक्ते सत्याह । ८ प्रतिवादिना। ९ वादिनः। १० प्रतिषिद्धः। ११ वादिनः। १२ पराजयः। १३ तस्य वादिनः। १४ प्रतिवादी। १५ गौणेथेभिप्रेते मुख्याधप्रतिषेधमात्रेण। १६ ननु सकलशून्यवादिनाऽमुख्यरूपतयाभ्युपगतस्य प्रमाणादेर्मुख्यरूपतयैव प्रतिषेधं विदधानः कथं योगो निगृह्यतेत्याशङ्कायामाह। १७ उपचारेण । १८ नैतावता प्रतिवादिनः पराजयो यतः। १९ दूषणम् । २० भेदात् । २१ विधिसाध्यस्य । २२ कार्याणि, तैः समाः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy