SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ६१६ अमेयकमलमार्तण्डे [४. विषयपरि० सति प्रतीयते । न चैतत् समवाये संभवातिः प्रत्यक्षागोचर. त्वेनास्य प्रतिपादितत्वात् । न चातद्विषयं बाधकमातिप्रंसगात्। यत्पुनरुक्तम्-न चास्य संयोगवन्नानात्वमित्यादि; तदप्यसमीचीनम् । तदेकत्वस्यानुमानबाधितत्वात् । तथाहि-अनेकः सम५वायो विभिन्नदेशकालाकारार्थेषु सम्बन्धबुद्धिहेतुत्वात् । यो य इत्थंभूतःस सोनेकः यथा संयोगः, तथा च समवायः, तस्मादनेक इति । प्रसिद्धो हि दण्डपुरुषसंयोगात् कटकुड्यादिसंयोगस्य भेदः। "निविडः संयोगः शिथिलः संयोगः' इति प्रत्ययभेदात्संयोगस्य भेदाभ्युपगमे 'नित्यं समवायः कदाचित्समवायः' इति प्रत्यय१० भेदात्समवायस्यापि भेदोस्तु । समवायिनोनित्यकादाचित्कत्वाभ्यां समवाये तत्प्रत्ययोत्पत्तौ संयोगिनोर्निविडत्वशिथिलत्वाभ्यां संयोगे तथा प्रत्ययोत्पत्तिः स्यान्न पुनः संयोगस्य निवि. डत्वादिस्वभावभेदात्, इत्येकं संधिसोरन्यत् प्रच्यवते। तथा, 'नाना समवायोऽयुतसिद्धावयविद्रव्याश्रितत्वात् संख्या. १५वत्' इत्यतोप्यस्यानेकत्वसिद्धिः। न चेदमसिद्धम् ; अनाश्रितत्वे हि समवायस्य "पंण्णामाश्रितत्वमन्यत्र नित्यद्रव्येभ्य” [प्रश०भा० पृ१६] इत्यस्य विरोधः। अथ न परमार्थतः समवायस्याश्रितत्वं नाम धर्मो येनानेकत्वं स्यात् किन्तूपचारात् । निमित्तं तूपचारस्य समवायिषु सत्सु समवायज्ञोनम् । तत्त्वतो ह्याश्रितत्वेस्य खान२० यविनाशे विनाशप्रसङ्गो गुणादिवत्, इत्यप्ययुक्तम् । विशेषपरित्यागेनाश्रितत्वसामान्यस्य हेतुत्वात् , दिगादीनामाश्रितत्वापत्तेश्व, मूलद्रव्येषूपलब्धिलक्षणप्राप्तेषु दिग्लिङ्गस्य 'इमतः पूर्वेण' इत्यादिप्रत्ययस्य काललिङ्गस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् । तथा च 'अन्यत्र नित्यद्रव्येभ्यः' इति विरुध्यते । सामान्यस्या२५ नाश्रितत्वप्रसङ्गश्च; आश्रयविनाशेप्यविनाशात् समवायवत् । अस्तु वानाश्रितत्वं समवायस्य, तथाप्यनेकत्वमनिवार्यम्; तथाहि-अनेकः समवायोऽनाश्रितत्वात्परमाणुवत् । नाकाशादि १ गगनकुसुमस्यापि बाधकत्वप्रसङ्गात् । २ संबन्ध इति बुद्धिः संबन्धबुद्धिः, तस्याः। ३ दृष्टान्तं समर्थयति । ४ परमाणुतद्रूपयोः। ५ तन्तुपटयोः। ६ सम• वायस्य । ७ वैशेषिकस्य । ८ द्रव्यगुणकर्मसामान्यविशेषसमवायानाम् । ९ ग्रन्थस्य । १० स्वरूपम् । ११ तन्तुपटादिषु। १२ समवाय इति ज्ञानम् । १३ स्वाश्रयादभिन्नत्वात्। १४ गुणो गुण्याश्रितः, अवयवोवयव्याश्रित इति विशेषपरित्यागेन। १५ आश्रयविनाशेप्याश्रितत्वसामान्यस्याविनाश एव तस्य नित्यत्वात् । १६ दिगादीनामाश्रितत्वे च सति । १७ नित्यद्रव्याणामाश्रितत्वात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy