________________
सू० ४।१०] आत्मद्रव्यवादः
५७३ प्रस्तावे तदलमतिप्रसङ्गेन । तदेवं धर्माधर्मयोस्तदात्मगुणवनिषेधात् तन्निधानुमानवाधितमेतत्-'देवदत्ताङ्गनाद्यङ्गं देवदत्तगुणपूर्वकम्' इति ।
अस्तु वा तयोर्गुणत्वम् । तथापि न तदङ्गनाङ्गादिप्रादुर्भावदेशे तत्सद्भावसिद्धिः । न खलु सर्व कारणं कार्यदेशे सदेव तजन्मनि ५ व्याप्रियते, अजनतिलकमन्त्राऽयस्कान्तादेराकृप्यमाणानादिदेशेऽसतोप्याकर्षणादिकार्यकर्तृत्वोपलस्मात् । कार्यत्वे सति' इति च विशेषणमनर्थकम् ; यदि हि तगुणपूर्वकत्वाभावेपि तदुपकारकत्वं दृष्टं स्यात् तदा 'कार्यत्वे सति' इति विशेषणं युज्येत, 'सति सम्भवे व्यभिचारे च विशेपणमुपादीयमानमर्थवद्भवति'१० इति न्यायात् । कालेश्वरादौ दृष्टसिति चेत् ; तर्हि कालेश्वरादिकमतहणपूर्वकमपि यदि तेंदुपकारकम् कार्यमपि किञ्चिदन्यपूर्वकमपि तदुपकारकं भविष्यतीति सन्दिग्धविपक्षव्यावृत्तिकत्वादनकान्तिको हेतुः, क्वचित्सर्वज्ञत्वाभावे साध्ये वागादिवत् । न च नित्यैकस्वभावात्कालेश्वरादेः कस्यचिदुपकारः सम्भवतीत्युक्तम् । १५
नच(ननु च) नकुलशरीरप्रध्वंसाभावोऽहेरुपकारकोस्ति तस्मिन्सति सुखावासभ्रमणादिभावादतः सोपि तद्गुणपूर्वकः स्यात्, तथा च कार्यत्वासम्भवेन सविशेषणस्य हेतोरवर्त्तमानाद्भागासिद्धो हेतुः। प्रत्युक्तं चाभावस्यानन्तरमेव कार्यत्वम् । अथाऽतगुणपूर्वकः; अन्यदप्यतहणपूर्वकमपि तदुपकारकं किन्न स्यात् ? २०
साध्यविकलं चेदं निदर्शनं ग्रासादिवदिति । तत्र ह्यात्मनः को गुणो धर्मादिः, प्रयत्नो वा स्यात् ? धर्मादिश्वेत् ; साध्यवत्प्रसङ्गः। प्रयत्नश्चेत् ; कोयं प्रयत्नो नाम? आत्मनः तद्वयवानां वा हस्ताद्यवयवप्रविष्टानां परिस्पन्दः; स तर्हि चलनलक्षणा क्रिया, कर्थ गुणः ? अन्यथा गमनादेरपि गुणत्वानुषङ्गाक्रियावातॊच्छेदः।२५ तथा चायुक्तम्-क्रियावत्त्वं द्रव्यलक्षणम् । यदप्युक्तम्-'अदृष्टं स्वाश्रयसंयुक्ते आश्रयान्तरे कारभते
१ ततश्चाचेतनत्वं कर्मणाम् । २ कर्मणां पौगलिकत्वसमर्थनस्य । ३ आदिना लोहादिदेशे। ४ हेतोर्विपक्षे वृत्तिनिवृत्त्यर्थ हेतौ विशेषणं योजयन्त्याचार्या इति वचनात् । ५ विपक्षे । ६ कुत्रचिनिदर्शने । ७ विशेष्यस्य । ८ हेतोः। ९ अकार्यरूपे । १० अकार्यत्वे सति तदुपकारकत्वम् । ११ तस्य देवदत्तादेः । १२ अभावस्य कार्यत्वासम्भवेन। १३ अणुपरिमाणानधिकरणत्वस्य प्रसज्यपक्षे । १४ देवदत्ताङ्गनाद्यङ्गमपि। १५ साध्यमसिद्धं यथा तथा धर्मादिगुणत्वमप्यसिद्धम्। १६ स्वाश्रयः= आत्मा। १७ द्वीपान्तरवत्तिंपदार्थे ।