SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ सू० ४.१० आकाशद्रव्यविचारः पलम्भाभावप्रसङ्गात् । अथ देशान्तरे; तत्रापि किं तद्देशे गेला, रूदेशस्थ एव वा देशान्तरे तान्यसौ जनयेत् ? यदि स्वदेशस्थ एव; तर्हि लोकान्तेपि तजनकत्वप्रसङ्गः। अदृष्टमपि च शरीरदेशस्थमेव देशान्तरवर्तिमणिमुक्ताफलाद्याकर्षणं कुर्यात् । तथा च "धर्माधर्मो स्वाश्रयसंयुक्त आश्रयान्तरे कारभेते"[ ]५ इत्यादिविरोधः। न च वीचीतरङ्गादावन्यप्राप्तकार्यदेशत्वे सत्यारम्मत्वं दृष्टं नात्रापि तथा तत्कल्पयेताध्यक्षविरोधात् । अथ तद्देशे गत्वा तर्हि सिद्ध शब्दस्य क्रियावत्त्वं द्रव्यत्वप्रसाधकम् । किञ्च, आकाशगुणत्वे शब्दस्यास्मदादिप्रत्यक्षता न ज्यादाकाशस्यात्यन्तपरोक्षत्वात्। तथाहि-येऽत्यन्तपरोक्षगुणिगुणा न तेऽस- १० दादिप्रत्यक्षाः यथा परमाणुरूपादयः, तथा च परेणाभ्युपगतः शब्द इति । न च वायुस्पर्शन व्यभिचारः; तस्य प्रत्यक्षत्वप्रसाधनात् । किञ्च, आकाशगुणत्वेऽस्मदादिप्रत्यक्षत्वे चास्यात्यन्तपरोक्षा. काशविशेषगुणत्वायोगः। प्रयोगः-यदमदादिप्रत्यक्षं तन्नात्यन्त-१५ परोक्षगुणिगुणः यथा घटरूपादयः, तथा च शब्द इति । यञ्चोक्तम्-'सत्तासम्वन्धित्वात्' इति; तत्र किं स्वरूपभूतया सत्तया सम्बन्धित्वं विवक्षितम् , अर्थान्तरभूतयों वा? प्रथमपक्षे सामान्यादिभिर्व्यभिचारः; तेषां प्रतिषिध्यमानद्रव्यकर्मभावत्वे सति तथाभूतया सत्तया सम्बन्धित्वेपि गुणत्वासिद्धः। २० द्वितीयपक्षस्त्वयुक्तः, न हि शब्दादयः खयमसन्त एवार्थान्तरभूतया सत्तया सम्बध्यमानाः सन्तो नामाश्वविषाणादेरपि तथाभावानुषङ्गात् । प्रतिषेत्स्यते चार्थान्तरभूतसत्तासम्वन्धे. नार्थानां सत्त्वमित्यलमतिप्रसङ्गेन। यञ्चोक्तम्-शब्दो द्रव्यं न भवत्येकद्रव्यत्वात्। तत्रैकद्रव्यत्वं २५ साधनमसिद्धम् । यतो गुणत्वे, गगने एवैकद्रव्ये समवायेन वर्तने च सिद्धे, तत्सिद्ध्येत्, तच्चोतया रीत्याऽपास्तमिति कथं तत्सिद्धिः? १ आद्योऽनेकः शब्दः । २ स्वाश्रयः आत्मा आत्मनो व्यापकत्वात्। ३ मणिमुक्ताफलादौ, शरीरापेक्षया । ४ आकर्षणादिलक्षणम् । ५ कार्यम्-उत्तरवीचीलक्षणम् । ६ उत्तरतरङ्गाणाम् । ७ वायुस्पर्श अत्यन्तपरोक्षगुणिगुणो भवत्यसदादिप्रत्यक्षो न भवतीति न। ८ आकाशगुणः शब्दः। ९ सामान्यविशेषसमवायवत् (सामान्य विशेषसमवायाः स्वतः सन्त इति वचनात्)। १० शब्दस्य । ११ द्रव्यगुणकर्मवत् । १२ उभयथा सत्तासम्बन्धित्वस्य दृष्टत्वात्प्रकारान्तरासम्भवात् । १३ आदिना विशेषसमवाययोर्ग्रहणम् । १४ रूपादिवत् । १५ शब्दस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy