SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ सू० ४।१०] आकाशद्रव्यविचारः ५५३ निवर्त्तनात्पांश्वादिवदेवावसीयते, तदप्यन्यदिगवस्थितेन श्रमणात् । न गन्धादयो देवदत्तं प्रत्यागच्छन्तस्तेन निवर्त्यन्ते, न च तेषां तेन संयोगो निर्गुणत्याहुणानाम् : तन्न; तद्वतो द्रव्यस्यैवानेन प्रतिनिवर्त्तनात् , केवलानां तेषां निष्क्रियत्वेनागमननिवनायोगात् । ततः सिद्धं गुणवत्त्वाद्रव्यत्वं शब्दस्य ! ५ क्रियावत्त्वाच्च वाणादिवत् । निष्क्रियत्ने तत्य श्रोत्रेणाऽग्रहणमनमिलम्बन्धात् । तथापि ग्रहणे श्रोत्रत्याप्राप्यकारित्वं स्यात् । तथा च, 'प्राप्यकारि चक्षुर्वाह्येन्द्रियत्वात्त्वगिन्द्रियवत्' इत्यल्यानैकान्तिकत्वम् । सम्बन्धकल्पने श्रोत्रं वा शब्दोत्पत्तिप्रदेशं गत्त्वा शब्देनाभिसम्बध्येत,शब्दोवा खोत्पत्तिदेशादागत्य श्रोणामिस-१० म्वध्येत? न तावद्धर्माधर्माभ्यां संस्कृतकर्णशष्कुल्यवरुद्धनभोदेशलक्षणश्रोत्रस्य शब्दोत्पत्तिदेशे गतिः, तथा प्रतीत्यभावात् , निष्क्रि. यत्वाच्च । गतौ वा विवक्षितशब्दान्तरालवर्तिनामल्पशब्दानामपि ग्रहणप्रसङ्गः, सम्बन्धाविशेपात् । अनुवातप्रतिवाततिर्यग्वातेषु प्रतिपत्त्यप्रतिपत्तीपत्प्रतिपत्तिमेदाभावश्च, श्रोत्रस्य गच्छंतस्तत्कृ-१५ तोपकाराद्ययोगात् । नापि शब्दस्य श्रोत्रप्रदेशागमनम् ; निष्क्रियत्वोपगमात् । आगमने वा सक्रियत्वम् । ननु नाद्य एवाकाशतच्छङ्घमुखसंयोमेश्वरीदेः समवाय्यसमवायिनिमित्तकारणाजातः शब्दः श्रोत्रेणागत्य सम्वध्यते येनार्य दोषः, अपि तु वीचीतरङ्गन्यायेनापरापर एवाकाशशब्दादिलक्ष-२० णात् समवाय्यसमवायिनिमित्तकारणाजांतः तेनाभिसम्बध्यते; तदप्यसमीचीनम् ; सर्वत्र क्रियोच्छेदानुषङ्गात् । 'वाणादयोपि हि पूर्वपूर्वसमानजातीयलक्षणप्रभवा लक्ष्यप्रदेशव्यापिनो न पुनस्ते एवं' इति कल्पयितुं शक्यत्वात्। तत्र प्रत्यभिज्ञानान्नित्यत्वसिद्धेनैवं १ निश्चीयते । २ न चेदमसिद्धम् । ३ पुरुषेणावसीयते। ४ अनैकान्तिकहेतुमुद्भावयति परः। ५ द्रव्यरहितानाम् । ६ व्यभिचारो नास्ति प्रतिनिवर्त. नादित्यस्य हेतोर्यतः। ७ शब्दस्य । ८ ताल्वादिकम् । ९ निष्क्रियत्वमसिद्धमित्याह। १० अन्तरालं भेर्या दिशब्दे। ११ अविवक्षितानां नरादिशब्दानाम् । १२ श्रोत्रेण। १३ सत्सु। १४ शब्दोत्पत्तिदेशं प्रति । १५ आदिना अनुपकारेषदुपकारग्रहणम् । १६ परेण । १७ तथा च द्रव्यं शब्द इत्यायातम् शब्दः क्रियावान्पूर्वदेशत्यागेन देशान्तरे समुपलभ्यमानत्वात् , यदित्यं तदित्यं यथा बाणादि, न चेदमसिद्धं वक्तमुखप्रदेशत्यागेन श्रोत्रप्रदेशे समुपलभ्यमानत्वात् । १८ आदिनानुकूलवातादिग्रहः । १९ आदिना ईश्वरादिग्रहः । २० अन्त्यः शब्दः। २१ प्रथममुक्ताः । प्र०क०मा०४७
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy