________________
५५०
अमेयकमलमार्तण्डे
[४. विषयपरि०
__ अत्र प्रतिविधीयते । शब्दानां सामान्यो नाश्रितत्वं किमंतः साध्यते, नित्यैकास्तविभुद्रव्याश्रितत्वं वा? प्रथमपक्षे सिद्धसाध्यता तेषां युगलकार्यतया तदाश्रितत्वाभ्युपगमात् । द्वितीयपक्षे तु सन्दिग्धविपेक्षव्यावृत्तिकत्वेनानैकान्तिको हेतुः; तथाभूतसा९ ध्यान्वितत्वेनास्य क्वचिदृष्टान्तेऽप्रसिद्धः । प्रतिषिध्यमानकर्मभा. करने सत्यपि च प्रतिषिध्यमानद्रव्यभावत्वमसिद्धम् ; द्रव्यत्वाच्छब्दस्य । तथा हि-द्रव्यं शब्दः, स्पर्शाल्पत्वमहत्त्वपरिमाणसंख्यासंयोगगुणाश्रयत्वात् , यद्यदेवंविधं तत्तद्रव्यम् यथा वदा. मलकबिल्वादि, तथा चायं शब्दः, तस्माद्रव्यम् । १० तत्र न तावत्स्पर्शाश्रयत्वमस्यासिद्धम् ; तथाहि-स्पर्शवाञ्छब्दः
खसम्बद्धार्थान्तराभिघातहेतुत्वात् मुद्रादिवत् । सुप्रतीतो हि कंसपाध्यादिध्वानाभिसम्वन्धेन श्रोत्राद्यभिघातस्तत्कार्यस्य वाधिर्यादेः प्रतीतेः । स चास्याऽस्पर्शवत्त्वे न स्यात् । न ह्यस्पर्शवता कालादिनाभिसम्बन्धेऽसौ दृष्टः । न च शब्दसहचरितेन वायुना १५ तदभिघातः इत्यभिधातव्यम्, शब्दाभिसम्वन्धान्वयव्यतिरेका
नुविधायित्वात्तस्य, तथाभूतेपि तदभिघातेऽन्यस्यैव हेतुकल्पने तत्रापि कः समाश्वासः? शक्यं हि वक्तुम्-न वाय्वाधभिसम्वन्धात्तदभिघातः किन्त्वन्येन, इत्यनवस्थानं हेतूनाम् । गुणत्वेनास्य निर्गुणत्वात्स्पर्शाभावात्तदभिघाताहेतुत्वे चक्रकप्रसङ्गः-गुणत्वं २० ह्यद्रव्यत्वे, तदप्यस्पर्शवत्त्वे, तदपि गुणत्वे इति । स्पर्शवतार्थेनाभिहन्यमानत्वाच्च स्पर्शवानसौ । न चानेनाभिहन्यमानत्वमस्यासिद्धम् ; प्रतिवातभित्त्यादिभिः शब्दस्याभिहन्यमानतया सकलजनसाक्षिकात् मूर्तेन चामतस्याविरोधेनाऽप्रतिघातागगनभित्त्या. दिवत् । तन्नास्य स्पर्शाश्रयत्वमसिद्धम्। २६ नाप्यल्पमहत्त्वपरिमाणाश्रयत्वमः अल्पमहत्त्वप्रतीतिविषयत्वा
द्वदादिवत् । ननु च 'अल्पः शब्दो मन्दः' इत्यादिप्रतीत्या मन्द
१ गुणत्वादिति हेतोः । २ इति विशेषणम् । ३ अतोनुमानान्नभसो द्रव्यसिद्धिराश्रयमात्रस्यैव सिद्धिप्रसङ्गात् । ४ जैनानाम् । ५ विपक्षः अनित्यानेकमूर्ताऽविभुद्रव्याश्रितम् । ६ रूपादयो दृष्टान्तभूता अनित्यादिविशिष्टपक्षे वर्तन्तेऽतोऽयमपि हेतुस्वादृशे पक्षे वर्त्तते अन्यादृशे वेति सन्दिग्धः। ७ गुणत्वात् । ८ नित्यैकव्याप्याश्रयाश्रितत्वे साध्यविकलो दृष्टान्तो रूपादीनां तद्विपरीताश्रयाश्रितत्वात् । ९ ते च ते गुणाश्च । १० अनिर्वचनीयेन। ११ आदौ यत्प्रतिपादितं तदेवान्ते स्यादिति चक्रकदोष इति भावः। १२ सन्दिग्धानकान्तिकत्वे हदम् । १३ स्पर्शवद्भिः। १४ असिद्धमिति संबन्धः । १५ शब्दस्य । १६ अल्पत्वमहत्त्वपरिमाणम् ।