SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० खरूपादप्रच्युतार्थस्यानुपलमानुपपत्तेः । स्वरूपात्प्रच्युतौ वा कथं न कपालकाले मुद्गरादिहेतुकं भावान्तरं प्रच्युतिर्भवेत् ? ___ अथ घटकपालव्यतिरिक्तं भावान्तरं घटप्रध्वंसः; नन्वत्रापि तेन सह घटस्य युगपदवस्थानाविरोधात् कथं तत्तत्प्रध्वंसः? अन्य. ५थोत्पत्तिकालेपि तत्प्रध्वंसप्रसङ्गाद्धटस्योत्पत्तिरेव न स्यात् । अन्यानपेक्षतया चाग्नेरुष्णत्ववत्स्वभावतोऽभावस्य भावे स्थिते. रपि स्वभावतो भावः किन्न स्यात् ? शक्यते हि तत्राप्येवं वक्तुं कालान्तरस्थायी स्वहेतोरेवोत्पन्नो भावो न तद्भावे भावान्तर। मपेक्षते अग्निरिवोष्णत्वे । भिन्नाभिन्नविकल्पस्य चाभाववत्, १०स्थितावपि समानत्वात् तत्राप्यन्यानपेक्षया निर्हेतुकत्वानुषङ्गः। तथाहि-न वस्तुनो व्यतिरिक्ता स्थितिस्तद्धेतुना क्रियते; तस्याऽस्थास्नुतापत्तेः। स्थितिसम्बन्धात्स्थासुता; इत्यप्ययुक्तम् ; स्थितितद्वतोयतिरेकपक्षाभ्युपगमे तावत्तादात्म्यसम्वन्धोऽसँङ्गतः । कार्यकारणभावोप्यनयोःसंहभावादयुक्तः। असहभावे वा स्थित १५ पूर्व तत्कारणस्यास्थितिप्रसङ्गः । स्थितेरपि स्वकारणादुत्तरकाल मनाश्रयतानुषङ्गः। अव्यतिरिक्तस्थितिकरणे च हेतुवैयर्थ्यम् । ततः स्थितिखभावनियतार्थस्तद्भावं प्रत्यन्यानपेक्षत्वादिति स्थितम् । ___ अहेतुकविनाशाभ्युपगमे च उत्पादस्याप्यऽहेतुकत्वानुषङ्गो ८. विनाशहेतुपक्षनिक्षिप्तविकल्पानामत्राप्यविशेषात्; तथा हि२० उत्पादहेतुः स्वभावत एवोत्पित्सुं भावमुत्पादयति, अनुत्पित्सु वा? आद्यविकल्पे तद्धेतुवैफल्यम् । द्वितीयविकल्पेपि अनुत्पित्सोरुत्पादे गगनाम्भोजादेरुत्पादप्रसङ्गः । खहेतुसन्निधेरेवोत्पिसोरुत्पादाभ्युपगमे विनाशहेतुसन्निधानाद्विनश्वरस्य विनाशो. प्यभ्युपंगमनीयो न्यायस्य समानत्वात् । १ पृथुबुध्नोदरादेः। २ घटलक्षणस्य । ३ घटात् । ४ तृतीयविकल्पः। ५ पदार्थान्तरस्य सदैव सद्भावात् । ६ भिन्नाभिन्नविकल्पाभ्यां यथाऽभावः कारणान्तरनिरपेक्ष (बौद्धमते ) स्तथा ताभ्यां स्थितिरपि कारणनिरपेक्षे (जैनमते ) ति भावः । ७ घटपटयोरिव । ८ सव्येतरगोविषाणवत् । ९ घटस्य । १० स्वकारणस्य क्षणभङ्गुरत्वेन नष्टत्वादिति भावः। ११ घटात्। १२ अव्यतिरिक्तस्थितिकरणे च स्थितिमद्वस्त्वेव कृतं स्यात् , तस्य च स्वहेतुनैव कृतत्वात्स्थितेर्हेतुना करणमनुपपन्नमित्यस्य वैयर्थ्यम् । १३ स्थितावन्यानपेक्षतया निर्हेतुकत्वं सिद्धं यतः । १४ स्थितिस्वभावम् । १५ भिन्नाऽभिन्नवक्ष्यमाणानाम् । १६ स्वभावत एव भावस्योत्पत्तिसम्भवात् । १७ कारणेन ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy